________________
.७८०
हीरसौभाग्यम्
[सर्ग १७ : श्लो० २३-२४
... व्रतीन्दुः साधुसुधाकरः सूरिः तां शत्रुनयानाम्नी नदीमुत्तीर्णवान् ‘एक पादं जले कृत्वा' इति सिद्धान्तोक्तविधिना उत्ततार । क इव । चक्रपाणिरिव। यथा नारायणो धातुकीखण्डभरतक्षेत्रमण्डनामरकाभिधराजधानीनायकं पाण्डुधात्रीपतिपुत्रकलत्रापहारकपर्धनरसिंहरूपेण पनोत्तरपृथिवीपतिं परिभूय द्रौपदी चादाय षड्भी रथैः सुस्थितसुरानुभावालवणार्णवमप्य. वगाय पूर्वोत्तीर्णपाण्डवाप्रतिहतवहनाभावात्सुराणां सिन्धु देवनदीं गङ्गां स्वयमुत्तरति स्म । अत्रागमविधेः किमपि प्रयोजन न, किं तु केवलं नद्युत्तरणमेवोपमानम् । च पुनः सरिरीर्यापथिक्या ईर्यापथिकीप्रतिक्रमणस्य कृते कार्याय तटे शत्रुजयसरित्तीरे क्षणक्षणमात्र तिष्ठति स्म । उत्प्रेक्ष्यते-कल्मषाणि पापानि हन्तीति कल्मषत्रीं शत्रजयां द्रष्टुं दृग्गोचरीकर्तु क्षणं तस्थि वानिव । यतः सा पापहन्त्री ततस्तदर्शनमपवर्गजिगमिषया पापप्रहननोद्यतानां यतीनामप्यु. चितमेव दुरितघातसाधनत्वादिति ॥
શ્લેકાર્થ
જેમ વિષ્ણુએ ગંગાનદીને પાર કરી હતી (ધાતકીખંડના ભરતક્ષેત્રમાં રહેલી અપરકંકા નગરીને રાજા પોત્તર પાંડવોની પત્ની દ્રૌપદીનું હરણ કરીને લઈ ગયેલે ત્યારે વિષ્ણુએ નરસિંહનું રૂપ કરીને પોત્તર રાજાને પરાભવ કરી, દ્રૌપદીને છોડાવીને પાંડવેને પી હતી. તે પછી લવણસમુદ્રના અધિષ્ઠાયક સુસ્થિતદેવના પ્રભાવથી છ રથ વડે લવણસમુદ્રને પાર કરીને પાંડ એકલા પાછા આવી ગયા હતા, વાહનના અભાવે કૃષ્ણ પિતાની ભુજાઓ વડે ગંગાનદી પાર કરી હતી.) તેમ આચાર્યદેવે શત્રુંજયનદીને પાર કરી. અર્થાત્ નદી ઊતર્યા, ત્યાર બાદ ઈર્યા પથિકી ક્રિયા કરવા માટે નદીકાંઠે ઊભા રહ્યા. તે જાણે પાપોને નાશ કરનારી શત્રુંજયનદીને ક્ષણવાર જોવા માટે ઊભા રહ્યા ન હોય ! ૨૨ છે
नागनारङ्गरसालप्रियालहन्तालतमालतालैः । कदम्बजम्बीरसनिम्बजम्बूसर्जार्जुनैरञ्जनवञ्जलैश्च ॥ २३ ॥ कङ्केलिभिभूषिततीरभूमिर्यावन्मनोभीप्सितदानदक्षा । स्वःसालतायाः स्पृहयात्मनीव सद्रुमैः सिन्धुरुपास्यतेव ।। २४ ।।
नागाः सुरपर्णिकाः पादपविशेषाः, नारङ्गाः प्रसिद्धाः, रसालाः सहकाराः इक्षवोऽपि, साला असनाः, प्रियाला राजादनाः, हन्ताला नाम देशविशेषप्रसिद्धवृक्षाः, तमालास्तापिच्छाः, येषां तमालपत्राणि भवन्ति यत्पत्राणि पूर्वदेशे दक्षिणदेशे कर्णाभरणीभवन्ति वा । यदुक्तं नैषधे'श्रवणतमालदलाङ्करं शशिकुरङ्गमुखे सखि निक्षिप। किमपि तुन्दलितः स्थगयत्यमुं स यदि तेन तदुच्छ्वसिमि क्षणम् ॥' इति विरहावस्थायां चन्द्रोदये दमयन्तीवाक्यम् । तालास्ताडतरवो