________________
सर्ग १७ : श्लो २१-२२]
हीरसौभाग्यम्
७७९
साधनस्थानकेषु लोकप्रसिद्धेषु पृथक पृथक् गत्या इतस्ततः पर्यटनेन भिन्नभिन्नप्रदेशपरिभ्रमणेन कृत्वा एष मदुपक्रमलोको मध्यमलोकसंजातो जनः खिद्यति । पादचारित्वेन पर्यटने दुष्करदुःखितया खेद प्राप्नोति इत्येष विमर्शः ॥
શ્લોકાથ
નદી, કુંડ, સરોવર, સમુદ્ર, પુષ્કરિણી આદિ ભિન્ન ભિન્ન લેકપ્રસિદ્ધ તીર્થોમાં આમતેમ ભટકવાથી દુખી થતા મધ્યલોકને વિચારીને, બ્રહ્માએ જાણે આ શત્રુંજયનદીને સર્વતીર્થોपता२३५ मनापी न होय ! ॥ २० ॥
शत्रुजयाद्रेर्महिमैकसिन्धो
सांनिध्यतोऽसावपि सिन्धुरासीत् । माहात्म्यभूमि किमु किं न
गङ्गासङ्गेन गगीयति सिन्धुरन्या ॥ २१ ॥
महिनामद्वैतमाहात्म्यानामेकस्याद्वितीयस्य सिन्धोः समुद्रस्य विमलाद्रेः पुण्डरीकगिरेः सांनिध्यतः सामीप्यास्पार्श्वे स्थित्या । उत्प्रेक्ष्यते-असौ शत्रुजया सरिदपि माहात्म्यानामसाधारणप्रभावाणां भूमिः स्थान किमु आसीनातेव । दृष्टान्तेनार्थ स्पष्टयति-युक्तोऽयमों वा । गङ्गासनेन मन्दाकिनीसंपर्केण अन्या परा यमुनाप्रमुखा सिन्धुर्नदो किमिति वितः प्रश्ने वा नैव गङ्गीयति गलेव नाचरति । अपि तु गङ्गेव भवति ॥
શ્લેકાર્થ
ગંગાનદીના સંગથી તે બીજી નદીઓ ગંગારૂપે ના બની પરંતુ મહિમાના સાગર વિમલાચલના સંગથી શત્રુંજયીનદી મહિમાના સ્થાનરૂપ કેમ બની ગઈ, તે એક આશ્ચર્ય રૂપ છે! | ૨૧ છે
उत्तीर्णवांस्तां सरितं व्रतीन्दुः
सिन्धुं मुराणामिव चक्रपाणिः। ईर्यापथिक्याश्च कृते तटे स्थाद्रष्टुं
क्षणं तामिव कल्मषनीम् ।। २२॥