________________
सर्ग १७ : श्लो० १८ ]
हीरसोभाग्यम्
७७७
सरिति शचुंजयायां नद्यां पयसां पानीयानां प्लवे पूरे क्रीडन्तीनां जलक्रीडां कुर्वाणा नामनेकानां विविधजातीयानां बहूनां वा पौराणां नागरिकलोकानां पुरंध्रीणां कामिनीनां पुञ्जो व्रजो व्यराजद्भाति स्म । उत्प्रेक्ष्यते-श्रमणानां साधूनां मध्येऽवनीन्दोः क्षोणीयचन्द्रस्य राज्ञः हीरसूरीश्वरस्य पादाम्बुजं चरणारविन्दं नमश्चिकीर्षुनमस्कर्तुमिच्छुः । 'तावदेव ऋषिरिन्द्रदिदृक्षुः' इन्द्र द्रष्टुमिच्छुः इति नैषधे । वारिसुरीभरः किं जलदेवतासंदोह इव ।।
કાર્થ શત્રુંજી નદીના પ્રવાહમાં અનેક નગરનારીઓ જલક્રીડા કરતી શોભે છે. તે જાણે આચાર્ય. દેવના ચરણકમલને નમસ્કાર કરવા માટે આવેલી જલદેવીઓને સમૂહન હોય! ૧૭
पतिव्रतापीश्वरवाधिभर्तृद्वयेति
कौलीनमपाचिकीर्षुः। शत्रुजयं सेवितुमात्मनागान्मिषेण
यस्या हरशेखरेव ।। १८ ॥
या सरित भातीति संबन्धः । उत्प्रेक्ष्यते-यस्याः शत्रुजयाया नद्या भिषेण कपटेन आत्मना स्वकीयरूपेणैव शत्रुजयं महातीर्थाधिराजं सेवितु हरशेखरा गङ्गा इवागादागता । किं कर्तुमिच्छुः । इत्यमुना प्रकारेण कौलीनं स्वकीयापवादम् । 'जनप्रवादः कौलीनं विगानं वचनीयता' इति हैम्याम । अपाचिकीर्षुः निराकर्तुमिच्छुः । इति किम् । स्वक्रान्तं विना पर पुमांसं मनसा वचसा कायेन स्वऽपि कदाचिदपि न कामयते इति सा पतिरेव व्रतं सतीत्वव्यञ्जको नियमः शीलं यस्याः सा पतिव्रता सती ईदृश्यतोऽपि सार्धाङ्गहारिपार्वतीतोऽपि अतिप्रेमाधिक्येन स्वशिरस्यारोपितापि मन्दाकिनी ईश्वरः शंभुः वार्धिः समुद्रः एतल्लक्षणं भर्तृवयं वल्लभद्वन्द्वं यस्याः सा द्वयोः पुरुषयोः पार्वे या वनिता व्रजति सा असती व्यभिचारिण्येव भवति सा सती सर्वथापि नोच्यते । अथ ईश्वरं भिक्षुकं मुक्त्वा समुद्र रत्नाकर भजते । तदिय पुंश्चली एव न पतिव्रता इति स्वनिन्दा निराकर्तुम् ।।
પ્લેકાર્થ
- શત્રુંજયીનદીના બહાને તીર્થાધિરાજની ઉપાસના કરવા માટે. જાણે ગંગાનદી આવી ન હેય! ગંગા, સ્વયં પતિવ્રતા સતી હોવા છતાં પણ ભિક્ષુક ઈશ્વરને ત્યાગ કરીને સમુદ્રને સેવે છે. તેથી ‘ઈશ્વર અને સમુદ્ર બે પતિ કરવાથી ગંગા સતી નહીં પરંતુ અસતી हि० सौ० ९८