________________
७७६
हीरसौभाग्यम्
[सर्ग १७ : श्लो० १६-१७
दिदृक्षया द्रष्टुमिच्छयेव पयःसुरीभिः जलदेवताभिः प्रकटीकृतानि जनलोचनगोचराणि निर्मितानि स्मितानि विकसितानि नेत्राणि नयनान्येव पत्त्राणि दलानि येषु तादृशानि स्वषदनानि निजमुखानीव ॥
કાર્થ
શત્રુંજયનદીમાં કમલો શેભે છે. તે જાણે પ્રમાણાતીત માહામ્યવાળા શત્રુંજય પર્વતને જોવા માટે વિકસ્વર પત્રોરૂપી નેત્રોવાળા જલદેવતાનાં મુખે પ્રગટ થયાં ન હોય તે ૧૫ છે
नेदृक्परं तीर्थमुदेति मुक्तिक्षेत्रं
त्रिलोक्यामपि तत्समीपे। शत्रुजयासिन्धुमिषेण रेखाचिख्यास
येतीव कृता विधात्रा ॥ १६॥
त्रिलोक्यां जगत्त्रये ईडक ईदृश शत्रुजयशैलसदृश मुक्तिक्षेत्र मोक्षगमनस्थान नामाख्यानपूर्वकानन्तानन्तकोटिकोटिमिततीर्थकदुगणधरसाधुगृहमेधिना सिद्धिसाधनपदम् अन्यतीर्थमतादृग्विध नैवोदेति जागर्ति । विद्यते इत्यर्थः । उत्प्रक्ष्यते-इत्यमुना प्रकारेणाचिख्यासया अर्थाज्जगत्पुर आख्यातुमिच्छयेव विधात्रा विश्वसृष्टिक; तस्य शत्रुजयस्य समीपे पार्श्वप्रदेशे शत्रुजया नाम सिन्धुस्तस्या मिषेण कपटेन रेखा कृता चिह्नितेव । एतस्य तुल्यमपर किमपि तीर्थ नास्तीत्यतोऽयमेव रेखाभाक् । तस्मादस्य पार्वे शत्रुजया सरिद्रूपा रेखा कृतास्तीत्यर्थः॥
શ્લેકાર્થ “ત્રણે જગતમાં શત્રુતીર્થસમાન, અનંતાનંત તીર્થકરે, ગણધર અને મુનીશ્વરોને મુક્તિના સાધનરૂપ મુક્તિક્ષેત્ર અન્ય કોઈ સ્થળે નથી,” આ પ્રમાણે ત્રણે લોકમાં જાહેર કરવા માટે જાણે બ્રહ્માએ શત્રુંજયી નદીના બહાને રેખા” દેરી ન હોય! ! ૧૬ /
पयःप्लवक्रीडदनेकपौरपुरंध्रिपुञ्जः
____सरिति व्यराजत् । नमश्चिकीर्षुः श्रमणावनीन्दोः
पादाम्बुजं वारिसुरीभरः किम् ॥ १७ ॥