________________
सर्ग १६ : श्लो० १४-१५ ]
सौभाग्यम्
पीयोजन संगमाज्जातपापेन मलिन पातककलुषीकृतम् । यदुक्तम्- 'महापातककृल्लो कैर्नित्यस्नानवधानतः । मुक्त्वा पापं गतैः स्थानं तदादि मलिनास्म्यहम् ॥' तदुपरि च गङ्गोतश्लोकः - 'परदारपरद्रव्यपरद्रोहपराङ्मुखः । गङ्गाप्याह कदाभ्येत्य मामयं पावयिष्यति ॥ इति परसमयोक्तानुसारेण परपातकागमनाद्गङ्गाया अपि मालिन्यं प्रसिद्धमास्ते तदुपरीयमुत्प्रेक्षा । स्वमात्मानं विभाव्य दृष्ट्वा । ज्ञात्वेत्यर्थः । तं पवितुं पवित्रीकर्तुं समागता जह्रोः पुत्री गङ्गेव । 'तीर्थे तोयव्यतिकरभवे जह्नकन्यासरखो:' इति रघुवंशे । अथ वा 'मलिनीभविष्णु' इति पाठः । तत्र कल्मषेण कलुषीभवनशील स्वमात्मीयमात्मानं पावनीकर्तुम् । मुनीश्वरेण किं कुर्वाणेन । समीक्षमाणेन विलोकमानेन । काम् । गिरीन्द्रलक्ष्मीं वनकुण्ड शिखराणां सुषमाम । पुनः किं कुर्वाणेन । इत्यमुना प्रकारेण ऊहमानेन वितर्क कुर्बता । इति किम् । धात्रा सृष्टिकर्त्रा अत्र सौराष्ट्रमण्डले शत्रुंजयमूलधरिख्यां वा विश्वेषां त्रयाणां सप्तानां चतुर्दशानां वा एकविंशतिसंख्याकानां वा जगताम् । 'भुवनानि निबध्नीयात्त्रीणि सप्तचतुर्दश' इति वाग्म टालंकारे । वृत्तौ एकविंशतिरपि । सर्वेषां वा चतुर्दशकोटीब्रह्माण्डाधिपतिः पार्वतीपतिः इति प्रसिद्धः । अचलानां पर्वतानां चारिमश्रीर्मनोज्ञत्वलक्ष्मीः पिण्डीकृता पुण्डरीकाचलरूपे पिण्डतां प्रापिता । उत्प्रेक्ष्यते – सर्वपर्वतानां श्रियमेकत्र पृथक् पृथक् अवतिष्ठमानामेकस्मिन्नेव स्थाने दिक्षता द्रष्टुमिच्छतेव पिण्डीकृता || युग्मान्तर्भूतषट्कुलक तुल्यम्। शत्रुंजय पर्वतात्प्रस्थानावसरे शत्रुंजय स्वरूप विचारणम् ॥
શ્લેાકા
ગિરિરાજની લક્ષ્મીને જોતાં આચાર્ય દેવે કલ્પના કરી કે બ્રહ્માએ જગતના પવ તાની શેાલા જોવાની ઇચ્છાથી સર્વે પત્રતાની શેાભાને પિંડરૂપ બનાવીને, અહીંયા જ જાણે એકઠી કરી ન હોય ! શત્રુંજયની સમીપ રહેલી શત્રુંજયી નદીને જોઈ. જાણે ગંગાનદી પાપી જીવાના સ્નાન કરવાથી મલિન બનેલા પેાતાના પ્રવાહને પવિત્ર કરવા માટે શત્રુંજયની નિશ્રામાં આવીને વસી ન હોય ! ॥ ૧૩ ।। ૧૪ ।।
पद्मानि यस्यां व्यलसन्मुखानि
पयःसुरीभिः प्रकटीकृतानि ।
अमानमाहात्म्यहीधरेन्द्र
७७५
दिदृक्षयेव स्मितनेत्रपत्त्रैः ॥ १५ ॥
यस्यां शत्रुंजयाभिधानतरङ्गिण्यां पद्मानि कमलानि व्यलसन् विभान्ति स्म । उत्प्रेक्ष्यते— अमान प्रमाणात माहात्म्य महिमा यस्य तादृशस्य महीधरेन्द्रस्य शत्रुंजयशैलराजस्य