________________
SraaNSah
..
.
सर्ग १७ : श्लो ८]
हीरसौभाग्यम्
७७१
पश्चाद्याधुटितम् । स्वस्वपुर प्रति प्रस्थितमित्यर्थः । काभिरिव । अम्भोधिवेलाभिरिव । यथा समुद्रस्य प्रवृद्धपयःकल्लोलमालाभिरुप कण्ठगिरेः समीपपर्वतात्पश्चाद्वलित्वा गम्यते । किंभूतः । गभीरैर्मधुरैरारवैस्तरङ्गवनिर्बन्धुराभिमनोज्ञाभिः यात्रिकश्रेणिभिरपि श्रीशत्रुजयाद्रिहीर. सरिमहिमगुणप्रशंसासंस्तवनादिगम्भीरनिनादैरभिरामाभिः ।
લેકાર્થ
સમુદ્રની ભરતી જેમ સમીપવતી પર્વતથી પાછી ફરે તેમ યાત્રાર્થે આવેલા યાત્રિકો શ્રી શત્રુંજય અને આચાર્યદેવના મનહર અને ગંભીર ગુ કીર્તન કરતાં સૌ સૌના સ્થાને પાછા ફર્યા અર્થાત્ યાત્રિકે પિતાપિતાના નગર તરફ ચાલ્યા ગયા. | ૭ |
मुहुः प्रसर्पन्पथि कण्ठपीठं
विभुज्य पारीन्द्र इवालुलोके । उवाह सौहित्यमसौ न दर्श
दर्श पुनः सिद्धधराधरं तम् ॥ ८ ॥
असौ सूरिः पथि श्रीशर्बुजय शैलसंबन्धिवतिमार्गे प्रसर्पन प्रचलन मुहुर्वारंवार कण्ठपीठ गलकंदल विभुज्य वक्रोकृत्य । 'गिरा विभारि विभुज्य कण्ठम्' इति नैषधे । आलुलोके । अर्थाद्विमलाचल विलोकयति स्म । क इव । पारीन्द्र इव । यथा केसरी अग्रे गच्छन् मुहः पश्चात्कण्ठ वलयित्वा विलोकते । पुनरन्यार्थे असौ सरिस्तत्रैवालोक्येऽप्यद्वैततीर्थतया प्र ख्यात पूर्वव्यावर्णित वा सिद्धधराधर शत्रुजयादि दर्श दर्श पुनः पुनदृष्ट्वा दृष्ट्वा सौहित्य तृप्तिम् । तृप्तिः सौहित्यमाघ्राणः' इति हैम्याम । न उवाह न वहते स्म न प्राप । सरागं सरणरणकच लोचनाभ्यां सादरमवलोकयन्नेव तृप्तिं प्राप्नोति स्म ॥
षभिः काव्यैः क्रियापदेषु सत्स्वपि सरेर्मानसविकल्पानामेकार्थनिष्ठतया कुलकमेपावधीयते
પ્લેકાર્થ
જેમ કેશરી સિંહ આગળ જતાં વારંવાર પાછું વળીને જુએ તેમ આચાર્યદેવ માર્ગમાં વિહાર કરતાં વારંવાર ડોક વાંકી કરીને અર્થાત્ પાછું વળીને શત્રુંજય તીર્થને જોતા હતા. વારંવાર જોવા છતાં પણ તૃપ્તિ પામતા નથી. જે ૮