SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ७७० हीरसौभाग्यम् [सर्ग १७ : श्लो० ६-७ निश्चिक्य चित्तेऽजयपार्श्वभ त्रिां स शQजयवद्वतीन्द्रः। कथंचिदप्याग्रहमस्य मेने सेनेशवत्सोऽपि ततः प्रतस्थे ॥ ६ ॥ स यतीन्द्रो हीरसूरिः कथंचिन्महता कष्टेन अस्य द्वीपबन्दिरस्य संघस्याग्रह मेने मा नयति स्म । किं कृत्वा । अजयनाम्ना दशरथनृपित्रा राज्ञा स्थापितस्याजयनाम्नः अधुना 'अद्गारा इति प्रसिद्धस्य पार्श्वभर्तुः श्रीपार्श्वनाथस्य यात्रां प्रणमन चित्ते स्वमनसि निश्चिक्य अवश्य मया अजयपार्श्वनाथयात्रा कार्यति निश्चय कृत्वा । किंवत् । शत्रुजयवत् । यथा मया शत्रुजययात्रा कृता, तथा अझारापार्श्वनाथस्य मया यात्रा कर्तव्येति विशेषः। अपि पुनःस सूरिरपि सेनेशवत्सेनापतिरिव राजेव वा ततः पादलिप्तपुरात्प्रतस्थे द्वीपबन्दिर प्रति प्रचलति स्म ॥ इति पादलिप्तपुरात द्वीपबन्दिरं प्रति प्रस्थानम् ॥ પ્લેકાર્થ શત્રુંજયની યાત્રાની જેમ, દશરથરાજાના પિતા અજ્યપાલે પ્રતિષ્ઠિત કરેલા શ્રીઅજારાપાર્શ્વનાથની યાત્રાને મનેમન નિર્ણય કરીને, આચાર્યદેવે દીવબંદરના સંઘની વિજ્ઞપ્તિ માન્ય કરી અને સેનાપતિની જેમ પરિવાર સહિત પાદલિપ્તપુરથી દીવબંદર તરફ વિહાર ये. ॥१॥ तत्प्रक्रमोपस्थितयात्रिकाणां तदावलीभिर्ववले गिरीन्द्रात् । अम्भोधिवेलाभिरिवोपकण्ठ गिरेगभीरारवबन्धुराभिः ॥ ७ ॥ स चासौ प्रक्रमश्च प्रस्तावस्तत्प्रक्रमः शत्रुजयाद्रियात्राकरणसमयः। 'वेला वाराववसर प्रस्तावः प्रक्रमान्तरम्' इति हैम्याम् । तत्रोपस्थितानामागतानाम् । 'उपस्थिता शोणितपारण मे' इति रघौ। तथा 'आगमने गमनार्थाः समभ्युपाङ्भ्यः पराः कथिताः । आपतति चोप तिष्ठत्यपनमति तथोपसीदति च ॥ इति क्रियाकलापे । यात्रिकाणां शत्रुजययात्राकारकाणा मावलीभिः श्रेणीभिस्तदा हीरसीपबन्दिर प्रति प्रस्थानावसरे गिरीन्द्राद्विमलाचलाइव
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy