SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सर्ग १६ श्लो १३८-१३९] हीरसौभाग्यम् ७६३ तदत्र प्राप्यतेऽनल्पं यद्वस्तु कापि नाप्यते । मेरो न सन्त्यदभ्राः किं दुःप्रापाः स्वद्रुमा मरो ॥ १३८॥ अत्र शत्रुजये तत्तत्प्रसिद्धमप्रसिद्धं वा निधिदर्शनकृतरजतकनककारिचित्रकमोहनवल्लीप्रमुखानेकौषधीरसकूपिकास्वर्णरत्नाकरादिकमनल्पं बहु । पदे पदे इत्यर्थः । वस्तु प्राप्यते लभ्यते भाग्यवद्भिः। अथ वा अत्र गिरौ बालवृद्धरपि सिद्धिरासाद्यते । यदुक्तम्-'सर्वेषामपि शैलानामुन्नतो विमलाचलः । यदारोहेण लोकाग्रं प्राप्यते बालकैरपि ॥' इति पूर्वसूरिस्तवे । तत्किम् । यद्वस्तु अन्यत्रान्य स्मिन् स्थाने महायासोऽपि कापि कुत्रापि नाप्यते न लभ्यते । युक्तोऽयमर्थः-ये स्वर्द्वमाः कल्पवृक्षा मरौ मरुस्थल्यां दुःप्रापाः । यदुक्तम्-'पातुं वाञ्छति चातकस्य रुदतो नेत्राम्बु यत्राम्बुदाश्छायामिच्छति निश्छदक्षितिरुहः प्रत्याशया धावताम् । अन्तगूढजलाशया श्रमजलं नेतु नदी काङ्क्षति प्राप्तास्त मरुनीवृत वयमितो दूरेण वाराणसीम ।।' इति मरुमण्डललक्षणम् । तत्र ये दुर्लभास्ते कल्पशाखिनो मेरौ सुवर्णाचले अदभ्रा गणनातीताः किं न सन्ति न विद्यन्ते अपि त्वसंख्या आसते ॥ કાર્થ રસકૂપિકા, ચિત્રાવેલ, સ્વર્ણ-રત્નની ખાણ આદિ કઈ પણ વસ્તુ અન્ય કઈ પણ સ્થાને પ્રાપ્ત થતી નથી તે શત્રુંજય પર્વતમાં સ્થાને સ્થાને અનર્ગલ પ્રાપ્ત છે. મરભૂમિમાં ક૯૫વૃક્ષો દુષ્માપ્ય છે તે શું મેરૂપર્વત ઉપર સુપ્રાપ્ય નથી! અર્થાત હોય છે. ૧૩૮ છે. षष्ठैः सप्तभिरष्टमाष्टमयुतैर्यस्मिन्कृतैर्निर्जलै स्तार्तीयीकतया मिते किल भवे प्रामोति सिद्धिं सुधीः। यस्मिन्नार्षभिकारितां मणिमयीं मृति जिनेन्दोनम स्कुर्वन्स्वर्णगुहागतामपि भवेदेकावतारी भवे ॥१३९ ॥ किलेति पूर्वाचा परम्परया श्रूयते बृहग्रन्थेषु च दृश्यते । यस्मिन् शत्रुजये तृतीय एव तार्तीयीकः । 'तीयादीकण स्वार्थे वा वक्तव्यः' । तस्य भावस्तार्तीयीकता तया तार्तीयीकतया। यदुक्तम्-'तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गों निसर्गाज्ज्वलः' इति नैषधे । मिते प्रमाणीकृते भवे जन्मनि सुधीर्धीमान सिद्धिं मोक्षं प्राप्नोति । कैः। षष्ठेरुपवासयमानैः 'छट' इति लोकप्रसिद्धैः । किंभूतैः । सप्तभिः सप्तसंख्याकैः मार्तण्डतुरगप्रमाणैः। पुनः किंभूतैः। अष्टमेन अष्टमनाना उपोषणत्रिकेण 'अट्ठम' संज्ञेन प्रसिद्धेन युतः सहितैः। पुनः किंभूतैः । कृतैर्विहितः। कीदृशैः कृतैः। निर्जलैः पानीयरहितैः चतुर्विधाहार
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy