________________
७६४
हीरसौभाग्यम्
[सर्ग १६ श्लो० १४०
प्रत्याख्यानरूपैः । अत्र ये निर्जलान सप्तषष्ठानष्टमं चाष्टमं कुर्वन्तीति ते तृतीये भवे मोक्ष यान्तीत्यर्थः। अपि पुनर्यस्मिन् शत्रुजये आर्षभिणा ऋषभस्यापत्यमार्षभिर्भरतचक्रवर्ती तेन कारितां वार्धकिना निर्मापितां जिनेन्दोः स्वतातस्य ऋषभदेवस्यैव मूर्ति प्रतिमां नमस्कुर्वन् प्रत्यक्ष लक्ष्यीकृत्य प्रणमन् सन् भवे संसारे एक एव नापरोऽवतारो जन्म अस्यास्तीति एकावतारी भवेत्स्यात् । मूर्ति किंभूताम् । मणिमयीं रत्नस्वरूपाम् । पुनः किंभूताम् । स्वर्णगुहागताम् ऋषभशिखरात्पश्चिमप्रदेशे स्वर्णनाम्न्यां गुहायां कंदरायां गतां प्राप्ताम् । आगमिष्यन्मन्दकालवशाल्लोलुपलोककृताशातनामयादिन्द्रवचसा सगरचक्रिणा स्वर्णगुहायां स्वयं गुप्तीकृत्य स्थापितामित्यर्थः॥
શ્લેકાર્થ
જે કઈ મેધાવી પુરુષ, શત્રુંજય ઉપર છઠ્ઠ, અઠ્ઠમ અને સાત ઉપવાસ કરે છે તે ત્રીજે ભવે સિદ્ધિગતિને પામે છે. ઈન્દ્રના કહેવાથી સગર ચક્રવર્તીએ અષમશિખરના પશ્ચિમ ભાગમાં આવેલી સુવર્ણ ગુફામાં રાખેલી ભરત ચક્રવર્તીએ ભરાવેલી શ્રીત્રષભદેવની રનની પ્રતિમાને છે કે દર્શન વંદન અને નમસ્કાર કરે છે તે જરૂર એકાવતારી હેય છે. ૧૩૯ છે
अत्रानन्तजिना अनन्तमुनिभिः सिद्धा विशुद्धाशया
ध्यानैवविभिरिन्धनप्रकरवन्निर्दह्य कर्मव्रजम् । सिद्धक्षेत्रमतो निगधत इदं चेदीहते मानसं सिद्धिं
वस्तदिह स्वयं वसति सा सत्संगमाकाक्षिणी ॥१४० ।।
अत्र शत्रुजये शेले न विद्यतेऽन्तोऽवसान येषां तादृशेर्मुनिभिः साधुभिः सार्धमनन्ताः प्रान्तातीताः कालस्यानन्त्याजिनास्तीर्थकराः सिद्धाः मोक्ष प्राप्ताः । किंभूताः । विशुद्धो निर्मल आशयोऽध्यवसायः परिणामो येषां ते। किं कृत्वा । निर्दह्य नितरां ज्वालयित्वा । कम् । कर्मणां ज्ञानावरणीय-दर्शनावरणीय-मोहनीय - अन्तराय- वेदनीय-नाम-गोत्र-आयुः प्रमुखानामनेकजातीयानां प्राचीनाचीर्णशुभाशुभपरिणतीनां व्रज समूहम् । कैः। ध्यानैः धर्मशुक्ल प्रणिधानः कृत्वा। किंवत् । इन्धनप्रकरवत् । यथा वह्निभिर्हताशनैः काष्ठकलापो निर्दह्यते । अतः अनन्तानन्तभेदभिन्ना नगरे गणपरिकलिततीर्थकृतां सिद्धिगमनकारणादिदमपि तीर्थ सिद्धक्षेत्रं निगद्यते कथ्यते । ततो भो भव्याः, चेद्यदि वो युष्माकं मानसं मनः सिद्धिं समीहते, तत्तहि सा सिद्धिः स्वयमात्मनैव इह शत्रुजये वसतिं वासं विधत्ते । किंभूता सा। सद्भिरुत्तमैः सम संगम संयोगमा सामस्त्येन काङ्कतीत्येवंशीला ।। इति शचुंजयाद्रिमाहात्म्यवर्णनम् ।