________________
७६२
[ सर्ग १६ श्लो० १३६-१३७
सौभाग्यम्
तालध्वजढङ्काभिधकदम्बलौहित्यरैवताद्यचलाः । free महिमानोऽमी यत्प्रतिकाया इवाभान्ति ।। १३६ ।।
अमी प्रत्यक्षाः संनिधौ निरीक्ष्यमाणाः तालध्वजः, तथा ढङ्क इत्यभिधा ययोस्तौ 'तस्ताझो ढंको' इति नाम्ना प्रसिद्धौ तथा कदम्बः, तथा लौहित्यः, तथा रैवत्य उज्जयन्तः कोलम्बो लोहिच्चो गिरिनारि इति नाम्ना लोकप्रसिद्धाः । एते पञ्चापि पर्वता आदौ कृत्वा येषां ते अचलाः 'टुंक' इति ख्याताः पर्वता यत्प्रतिकाया यस्य शत्रुंजयाद्रेः प्रतिबिम्बानीवाभान्ति आ सामस्त्येन शोभन्ते । किंभूताः । विलसन् त्रैलोक्ये स्फूर्तिमत्तां कलयन महिमा माहात्म्य' येषामेते पश्ञ्चापि गिरयः शत्रुंजयाद्रेर्मुख्य शिखर।णि विमलाच तुल्य माहात्म्यानि सन्ति ॥
શ્લાકા
તાલધ્વજ, ક, કે'મ, લૌહિત્ય અને રૈવત આદિ મહિમાવંત પ ́તા તે શત્રુંજયની ટુકાપે શેાલે છે, જાણે તે શત્રુજયનાં પ્રતિષિ`એ ન હોય ! ॥ ૧૩૬ ॥
माहात्म्यमेतस्य समग्रमेकैकस्यापि शृङ्गस्य कदापि वक्तुम् । प्रभुर्भवेत्कोऽपि तदाप्त एव
तरी तुमब्धेरिव वारि पोतः ॥ १३७ ॥
एवस्य शत्रुंजयस्य एकैकस्यापि शृङ्गस्य शिखरस्य समग्रं समस्तं माहात्म्य महिमानं वक्तं कथयितु यदि चेत्कदापि कस्मिन्नपि समये कोऽपि पुमान् प्रभुः समर्थो भवेत्तदा स आप्तः सर्वज्ञ एव नान्य सर्वज्ञं बिना अस्य महिमानं भाषितुं कोऽपि नालम् । क इत्र । पोत इव । यथा अन्धेर्महार्णवस्य वारि पानीयं यदि कदाचित्कोऽपि तरीतुमलं तदा स पोतो यानपात्रमेव न तारकादिः ॥
શ્લેાકા
જેમ સમુદ્ર તરવા માટે યાનપાત્ર સિવાય બીજું કાઈ સમથ નથી તેમ શત્રુ ંજયના એકેક શિખરનેા મહિમા કહેવા માટે સન સિવાય ખીજું કાઈ સમર્થ નથી. ।। ૧૩૭