________________
सर्ग १६ श्लो० १३५]
हीरसौभाग्यम्
७६१
त्युच्यते। चैत्रपौर्णमास्यामित्यर्थः । मुदा अनन्तानन्दसंदोहमेदुरतया मोक्षमसाधयत्साधया. मास । मुक्तिं जगामेत्यर्थः । क इव । जयीव । यथा जयनशीलो राजा प्रमोदेन महीमासमुद्रान्तमेदिनीं साधयति । तत इह नगे श्रीशत्रुजयपर्वते यत्किचिद्दानोपवासादिकमत्र दिने अस्यां चैव्यां पूर्णिमायां जनैविकलोकैः क्रियते विधीयते । तत्साधुसाध्वीविश्राणनोपवसनादिकमत्र चैत्रपूर्णिमावासरे एकस्मिन्नेवाहनि पञ्चकोटिमुनीनां मुक्तिगमनकारणेन कोटिभिः शतलक्षाभिः गुण्यते इति कोटिगुणितं स्यात् । किमिव । दानमिवा यथा सुपात्रे दानं कोटिगुणं भवेत् । यदुक्तम्-'दानपात्रमधमणमि हैकग्राहिकोटिगुणित दिवि दायि' इति नैषधे ।।
શ્લેકાર્થ
જેમ વિજયી રાજા પૃથ્વીને સાધે તેમ શત્રુંજ્ય પર્વત ઉપર ચૈત્રીપૂર્ણિમાના દિવસે પાંચ ક્રોડ મુનિએની સાથે પુંડરિક ગણધરે સિદ્ધિપદની સાધના કરી હતી. અર્થાત સિદ્ધિપદને વર્યા હતા. જેમાં સુપાત્રમાં કરેલું દાન કોડગુણ ફલને આપે છે તેમ શત્રુ ઉપર ચૈત્રીપૂર્ણિમાના દિવસે કરેલાં તપ-જપ-દાન આદિ ધર્માનુષ્ઠાન કોડગુણા ફલને આપે छ. ॥ १३४॥
शाश्वतादिरिवानन्तसमयस्थायुकोऽस्त्ययम् । कालक्रमात्पुनर्धत्ते शशीवोपचयक्षयौ ॥१३५ ॥
अयं शत्रुजयाद्रिर्न विद्यते कदाप्यन्तोऽवसान यस्य तावन्त समय काल यावत्तिष्ठतीत्येवंशीलः स्थायुकः। क इव । शाश्वताद्रिरिव । यथा अनश्वरो मेरुप्रमुखशैलः । जातिवाचित्वादेकवचनम् । अनन्तं कालं यावत्स्थास्नुरास्ते । परमस्मिन् शत्रुजये एकोऽयं विशेषः । कालक्रमादुत्सर्पिणी समयपरिपाट्या उपचयक्षयौ वृद्धिक्षीणभावौ असौ धत्ते । क इव । शशीव । यथा चन्द्रः शुक्लकृष्णपक्षक्रमादुपचयक्षीणते धत्ते । यथा शशी शुक्ल पक्षे वर्धते कृष्णे च हीयते, तथा शत्रुजयोऽप्युत्सर्पिण्यां वृद्धिं भजते अवसर्पिण्यां क्षणं क्षयमयते । किं च यथा कलावान्कलामात्रमेवावशिष्यते तथा विमलादिरपि सप्तहस्तप्रमाणो मुण्डकमानोऽवशिष्यते ॥
લેકાર્થ શત્રુંજ્ય પર્વત મેરૂની જેમ અનંતકાળપર્યત રહેવાને અર્થાત શાશ્વત છે. પરંતુ એક વિશેષતા છે કે ચન્દ્રની જેમ તેની પણ ક્ષયવૃદ્ધિ થાય છે. એટલે ઉત્સર્પિણીમાં વધત જવાને અને અવસર્પિણીમાં ઘટત ઘટતે છેક છઠ્ઠા આરામાં સાત હાથ પ્રમાણને રહેવાને. મે ૧૩૫ . हि० मौ० ९६