SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ७६० हीरसौभाग्यम् [सर्ग १६ श्लो० १३४ अर्हत्प्रतिमेव । अर्चाशब्देन पूर्वसरभिः प्रतिमा प्रोक्तास्ति । यथा-'अवनितलगतानां कृत्रिमाकृत्रिमाणां वरभवनगतानां दिव्यवैमानिकानाम् । इह मनुज कृतानां देवराजार्चितानां जिनवरभवनानां भावतोऽर्चा नमामि ॥' इति । अस्यादिदेवस्य पादुका पदप्रतिमा। पदद्वन्द्वप्रति. कृतिरित्यर्थः । अस्ति वर्तते । किंभूता । असुरा दानवा नरा मानवास्तथा मरुतो देवास्तेषां पुंगवैः प्रधानैरिन्द्रादिभिरचनीया पूजयितु योग्या पूजिता च । पुनश्यतां स्वय निपततां भूपीठे वातादिना न तु कराकर्षणादिना पर्णादीनां पल्लवपुष्पपत्रकलिकाफलशाखाछल्लिप्रमुखाणां चूर्णैः क्षोदैः कृत्वा भुवनतनुभृतां जगजनानां भूतवेताला देवविशेषा रक्षांसि रात्रिंचरा मनुष्याः सिद्धराक्षसादिविद्या देव जातीया वा इति द्विधा यक्षा वटवासिनस्ते आधाः प्रथमा येषां ते पिशाचप्रेतव्यन्तरयोगिनीशाकिन्यादयस्तेषामशेषाः समस्ता दोषा उपद्रवास्तान या अपहरति निर्णाशयति । च पुनर्या रोगान् समस्तानप्यामयानपाकरोति । केव। सुधेव । यथा पीयूषां देवभोज्य पीत सन्निःशेषान गदानपनयति ।। શ્લેકાર્થ રાયણવૃક્ષની નીચે યુગાદિદેવ નવ્વાણુપૂર્વવાર સમવસર્યા હતા. રાયણની નીચે પ્રભુ પ્રતિમાની જેમ ભગવંતની પાદુકા સુર, અસુર અને માન વડે પૂજનીય છે, તેમજ જમીન ઉપર રાયણવૃક્ષના પલવ, પાંદડાં, શાખા, છાલ આદિના ચૂર્ણ વડે અમૃતની જેમ જગતના છના ભૂત, પ્રેત, પિશાચ, યક્ષ, રાક્ષસ આદિના ઉપદ્ર અને સમસ્ત પ્રકારના રોગો २ थ य छे. ।। १३३ ।। श्रीवाचंयमपञ्चकोटिकलितः श्रीपुण्डरीको गणी चैश्यामत्र दिने महीमिव जयी सिद्धिं मुदासाधयत् । यत्किंचित्क्रियते जनैरिह नगे दानोपवासादिकं तत्स्यात्तेन दिनेऽत्र कोटिगुणितं दानं सुपात्रे यथा॥१३४ ॥ श्रीभिनिदर्शनचारित्र लक्ष्मी भिवता वाचंयमा महामुनयस्यस्तेषां पञ्चसंख्याकाभिः कोटिभिः शतलक्षाभिः कलितः सहितः । तथा कोटिशब्दो ह्रस्वःस्त्रीलिङ्गवाचिवदाकारान्तः । यदुक्तम्-'कियती पञ्चसहस्री कियती लक्षा च कोटिरपि कीयति । कोदार्योन्नतमनसां रत्मवती वसुमती कियती ॥' इति सूक्ते लक्षाशब्दः । तथा लिङ्गानुशासने-'मानो लक्ष माने वाच्य लक्षशब्दः स्त्रीक्लीबलिङ्गयोः लक्ष लक्षा च' इति लिङ्गानुशासने। श्रिया प्रथम चक्रिप्रथमपुत्रप्रथमतीर्थकृत्प्रथमगणभृल्लक्ष्म्या युतः पुण्डरीकनामा गणी श्रीऋषभदेवचतुरशीतिगणभृत्सुमुख्यो गणधरः अत्र शत्रुजयाद्रौ चैत्र्याम्। चत्रेण मासेन युक्ता पौर्णमासी चत्री
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy