SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ४८० हीरसौभाग्यम् [सर्ग १४ श्लो० ३९-४० हे क्षितीन्द्र, तेषां पञ्चानां महाब्रतानां मध्ये इदमुच्यमानमादिमं प्रथमं व्रतं वर्तते । तदेवाह-यत्ववचित्प्रदेशे ग्रामे अरण्ये वा रहसि प्रकटं वा प्रमोदेन दर्पेण संकल्पेन वा त्रिधा मनोवाक्कायैः कृत्वा समन्तवः सापराधाः अपि पुनः मन्तुमपराधं मुञ्चन्ति त्यजन्ति ते निरपराधाः जन्नवः प्राणिनः पञ्चतायाः पञ्चत्वस्य मृतेर्गोचरे विषये चरन्ति व्रजन्तीति एवंशीलाः नव क्रियन्ते सर्वथा नैव हन्यन्ते । के इव । निजनन्दना इव । यथा स्वपुत्राः पञ्चताया गोचराः केनचित्पित्रा न क्रियन्ते तथा सर्वेऽपि जगज्जन्तवः पाल्यन्ते एव ॥ કાથ રાજેન્દ્ર, આ પાંચ મહાવતે પૈકીના પ્રથમ વ્રતમાં અપરાધી કે નિરપરાધી કઈ પણ જીવની મન, વચન અને કાયાથી હિંસા કરવી નહીં પરંતુ પિતાના પુત્રની જેમ જીવોનું રક્ષણ કરાય છે. ૩૯ न देवदेवः परमेशितुः परः प्रतापवान्नापि पयोजिनीपतेः । गुरुर्नमेरुन मरुमणेमणिस्तथा न धर्मोऽस्ति दयाविधेः परः ॥ ४०॥ हे देवशब्देन राजभट्टारकादिरुच्यते । 'राजा भट्टारको देवः प्रयोज्याः पूज्यनामतः' इति हैम्याम् । तथा 'देव त्वभुजदण्डदर्पगरिमोग्दर्णप्रतापानल-', 'देवे दिग्विजयोद्यते' इति खण्डप्रशस्तौ । तथा 'देव त्वं जय कासि लुब्धकवर्हस्ते किमेतत्पलम' इत्यादि भोजप्रबन्धादावपि । तथा 'देवेन किं न श्रुतम्' इति चम्पूकथायाम् । यथा परमेशितुः परमेश्वरात्परो देवो नास्ति । अथ वा परमेश्वरादपरः देवानां भवनपतिवानव्यन्तरज्योतिष्कसैमानिकानां सुराणामपि देवः पूज्यः एतावता देवाधिदेवः । अपरे सवे हरिहरपुरंदरादयो देवाः, परमेश्वरस्तु देवदेवः, तथा यथा पयोजिनीपतेः सूर्यात्परः प्रतापवान्महस्वी तेजस्वी नास्ति । पुनर्यथा मेरोलक्षयोजनप्रमाणात्सुदर्शननाम्नः स्वर्णाचलात कोऽपि गुरुमहान्नास्ति । सोऽप्यपरेऽत्युच्चाश्चतुरशीतियोजनमानाः, अगं तु शतसहस्रयोजनोच्चस्तरः । पुनर्यथा मरुन्मणेश्चित्नारन्तात्परो मणिर्नास्ति वज्रपद्मरागककेतनमरकतेन्द्रनीललोहिताक्षपुलिन्दाञ्जनहंसगर्भादयोऽनेकेऽपि मणयः सन्ति, पर चिंतामणिं विना सर्वकामकरः कोऽपि नास्ति । यथा दयानिधेः कृपाकरादपरो धर्मो न वर्तते । 'नास्ति धर्मो दयापरः' इति गीतायाम् ॥ इति प्रथमं व्रतम् ।। પ્લેકાર્થ પરમેશ્વર સમાન બીજે કઈ દેવાધિદેવ નથી, સૂર્ય સમાન અન્ય કોઈ પ્રતાપી નથી, મેરૂ સમાન બીજે કોઈ મોટો પર્વત નથી અને ચિન્તામણિરતન સમાન બીજું કઈ રત્ન નથી તેમ “દયાધમ સમાન અન્ય કેઈ ધર્મ નથી. . ૪૦ છે
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy