________________
सर्ग १४ श्लो ३७-३९ ]
हीरसौभाग्यम्
४७९
विभोहीरगुरोर्मुखारविन्दे वदनपो भारती वाणी मधुपी बभूवुषी भ्रमरी संजायते स्म । प्रोवाचेत्यर्थः । कस्मिन् सति । नृपे अकब्बरे इद निगद्यमानं पृच्छति प्रश्न कुवति सति । इदं किम् । हे सरयः, इह जगति संयममार्ग वा यूयमात्मना स्वेन कति किय. त्संख्याकानि व्रतानि नियमविशेषान् वहवं धारयत पालयत वा यानि व्रतानि परेण असत्त्वेन क्लीबप्रायेण पुंसा वोढुं धारयितुं न शक्यानि न समर्थानि । किंवत् । अद्रि. वत् । यथा विष्णुव्यतिरेकेणेत्यध्याहारः । पर्वतोऽन्येन केनचितोढुं न शक्यते । सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च' इति विष्णुनामसु हैम्याम् ॥ इति सूरीणां कियदृतधारणविषये साहेः प्रश्नः ॥
પ્લેકાર્થ
હે પ્રભુ, કાયર પુરુષથી વહન કરવા માટે અશક્ય એવા પર્વત સમાન આપ કેટલાં ઘતેને ધારણ કરે છે ! આ પ્રમાણે રાજાએ પૂછયું ત્યારે આચાર્ય મહારાજ બાલ્યા. એ ૩૭
वसुंधराभोग इवामराचलान्सुपर्वसालानिव काश्चनाचलः । अहं वहे पञ्चमहाव्रतानमून्स्वविक्रमाधःकृतपाकशासन ॥ ३८ ॥
हे स्वविक्रमेण निजभुजवीर्गेण कृत्वा अधःकृतो हीनीकृतस्तिरस्कारं नीतो वा पाकशासनो वज्रपाणिर्येन तस्य संबोधनम् । अहमसूनने वक्ष्यमाणान्प्रोच्यमानाम्पञ्चसंख्या. कान्महाव्रतान् सर्वाभ्योऽप्य तिशायि नियमान्वहे विभर्मि । व्रतशब्दः पुनपुंसके । 'व्रतोपवीतौ पलिलिन्तौ वसन्त' इति लिङ्गानुशासने । क इव । वसुंधराभोग इव । यथा वसुंधराया सार्धद्वयद्वीपलक्षणमनुष्यक्षेत्रभूमेराभोगो विस्तारः पच्चामराचलान्मेरून् बिभर्ति । एको जम्बूद्वीपे, द्वितीयो धातुकीखण्डपूर्वार्धे, तृतीयो धातुकीखण्डपश्चिमाधे', चतुर्थः पुष्करार्धपूर्वाधे, पञ्चमः पुष्कराधपश्चिमाधे, एवं पञ्च काञ्चनाचलान धत्ते । पुनः क इव । काञ्चनाचल इव । यथा मेरूः कल्प-पारिजात-गन्दार- हरिचन्दन-संतानाभिधानान्पञ्च सुपर्वसालान् सुरद्रुमान् कलयति ॥
કાઈ
પિતાના પરાક્રમથી ઈન્દ્રને જેણે તિરસ્કાર કર્યો છે એવા હે રાજન, પૃથ્વી જેમ પાંચ મેરૂને, મેરૂ પર્વતકલ્પ, પારિજાત, મન્દર, હરિશ્ચન્દન અને સંતાન એ પાંચ કલ્પવૃક્ષને ધારણ કરે છે તેમ હું પાંચ મહાવ્રતને ધારણ કરું છું. તે ૩૮
क्षितीन्द्र तेषामिदमादिमं व्रतं समन्तवो मन्तुमुचोऽपि जन्तवः । न पश्चतागोचरचारिणः क्वचित्रिधा क्रियन्ते निजनन्दना इव ॥ ३९ ॥