________________
४७८
हीरसौभाग्यम्
[सर्ग १४ श्लो० ३५-३७
शालिशयाः शोभनशीलाः पाणय इव आत्मना स्वयमपुनर्भवस्य न विद्यते पुनस्ततोऽत्रागत्य द्वितीयवारं भव उत्पत्तिर्यस्मात्तादृशो मोक्षः तस्य तथा पुनर्भवानामुभदावः प्रकटीभवनं तं विदधते कुर्वते इत्येवंशीलाः मुक्तिकारिणो विद्यन्ते सन्ति ॥ इति सुधर्मदेवगुरु निरूपणम् ॥
લેકાર્થ
હે રાજેન્દ્ર, આ સુદેવ, સુગુરુ અને સુધર્મરૂપી તત્વત્રયી ભવ્ય જીવોના હાથમાં નિરંતર મિક્ષરૂપી લક્ષ્મીને શોભાવનાર છે. ૩૫
शिवत्रिनेत्रीमिव भूमिमानिव त्रिशक्ति विद्यात्रितयीं सुधीरिव । अचालनीयां सुरशैलबत्सुरैस्तदहेदादित्रितयीमहं वहे ॥३६ ॥
हे साहे, अहं तत्पूर्वव्यावणितस्वरूपामर्हदादीनां जिनगुरुधर्माणां त्रितयीं वहे स्वेन धारयामि । किंभूताम् । सुरैर्देवैरप्याचालनीयां चालयितुमशक्याम् । किंवत् । सुरशैलव. द्यथा मेरुः केनापि न चाल्यते । अहं वहे । क इव । शिव इव । यथा ईश्वरत्रिनेत्रीं लोचनत्रितयं वहति । 'एकत्रिग्भालहगेकपादः' इति हैम्याम् । यदुक्तं च-गतियुगलकमेवोन्मत्तपुष्पोत्कराणां त्रिनयनतनुपूजा वाथ वा भूमिपातः' इति । पुनः क इव । भूमिमानिव । यथा राजा तिसृणां प्रभुत्व-उत्साह-मन्त्रलक्षणानां त्रिकसंख्याकानां शक्तीनां समाहारस्त्रिशक्ति शक्तित्रिकं धत्ते । 'शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः' इति हैम्याम् । 'त्रिसाधना शक्तिरिवार्थमक्षयम्' इति रघौ । पुनः क इव । सुधीरिव । यथा विद्वान विद्यानां व्याकरण-साहित्य-तर्कलक्षणानां त्रितयीं बिभर्ति । भुवनवलिवह्निविद्या संध्या. गजवाजिनां भुवननेत्राणि' इति काव्यकल्पलतायाम् । त्रिसंख्याकानि ॥ इति साहेः पुरः सरिभिः स्वस्य तत्वत्रयाराधनं प्रोक्तम् ॥
શ્લેકાર્થ
હે રાજન, શંકર જેમ ત્રણ નેત્રને, રાજા પ્રભુત્વ, ઉત્સાહ અને મંત્રરૂપ ત્રણ શક્તિને અને પંડિત જેમ ન્યાય, વ્યાકરણ અને સાહિત્યરૂપ ત્રણ વિધાને વહન કરે છે તેમ હું મેરૂની જેમ દેવે વડે કરીને પણ અચલ એવી સુદેવ, સુગુરુ અને સુધર્મરૂપ તત્ત્વત્રીને १९न ४ छुः ॥ 3 ॥
कति व्रतानीह वहध्वमात्मना परेण शक्यानि न वोढुमद्रिवत् । इदं नृपे पृच्छति भारती विभोर्मुखारविन्दे मधुपी बभूवुषी ॥ ३७ ॥