SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ श्लो० ३३-३५ ] सौभाग्यम् जिनास्यप मकरन्दविभ्रमं दधद्विपत्पूषसुताप्रलम्बमित् । महोदयस्वर्गितरोरिवाङ्कुरः कृपापयोराशितमस्विनीपतिः ॥ ३३ ॥ नरोरगस्वगृहसार्वभौमतादिमेन्दिरा यस्य वशंवदा सदा । पुनर्विधातेव भवान्तकारकः क्षितीन्द्र धर्मः पुनरीदृशः श्रिये ॥ ३४ ॥ ४७७ हे क्षितीन्द्र धरित्रीसहस्रनेत्र, ईदृशो विश्वे ईदृग्लक्षणः संसारसमुद्रमध्यमजत्समस्तजनतानां धारणादुद्धारणाद्धर्मः श्रिये मोक्षलक्ष्म्यै भवति । किं कुर्वन् । जिनस्य रागद्वेषाद्यशेषविद्वेषितुः परमेश्वरस्यास्यपद्मे वदनकमले मकरन्दविभ्रमं मधुविलासं दधद्वारयन् । सर्वज्ञप्रणीत इत्यर्थः । किंलक्षणः । विपदापद्रूपा या पूषसुता सूर्यपुत्री यमुना तद्भिदायां प्रलम्बभिद्वलभद्रोपमः । रुक्मिप्रलम्बयमुनाभित्' इति हैम्याम् | आपद्वल्लीनां मूलोन्मूलनकृदित्यर्थः । उत्प्रेक्ष्यते - महोदयो मोक्षः स एव स्वर्गितरुः कल्पद्रुमस्तस्याङ्कुरः प्ररोहः । यथाकुँरात्तरुर्जायते तथा धर्मादेव सर्वदुःखक्षयः स्यादिति । पुनः किंभूतः । कृपा जगज्जीवानुकम्पा सैव पयोराशिः समुद्रस्तद्वर्धने तमस्विनीपतिः विधुः । यथा चन्द्रात्समुद्रो वर्धते, तथा धर्मादपि दयापि वर्धमाना भवति । जीवदयामय इत्यर्थः । पुनर्यस्य धर्मस्य नरा मनुष्याः, उरगा नागाः, स्वर्गृहाः पुराः, तेषां सार्वभौमाश्चक्रवर्तिनस्तेषां भावो नरोरगस्वर्गृहसार्वभौमता नरेन्द्रता नागेन्द्रता असुरेन्द्रता देवेन्द्रता ता आदिमा यस्यास्तादृश्य इन्दिराः सर्वश्रियो लक्ष्म्यो यस्य सदा नित्यं वशंवदा आयत्ता यं ददाति तं श्रयन्ते पुनः विधाता ब्रह्मा इव भवस्य संसारस्यान्तकारकः घातुकः विधातापि भवान्तकृन्नामा || युग्मम् ॥ इति धर्मस्वरूपम् ॥ શ્લાકા હું રાજેન્દ્ર, ધમ જિનેશ્વર ભગવંતના મુખરૂપી કમલમાં મકરંદરૂપ છે, અર્થાત્ સજ્ઞપ્રણીત છે. વિપત્તિરૂપી યમુનાના પ્રવાહને ભેદનાર, સ્વગ અને અપવગ (મેાક્ષ) રૂપ વૃક્ષના અંકુર સમાન, નરેન્દ્ર, નાગેન્દ્ર, દાનવેન્દ્ર અને દેવેન્દ્રની સાવભૌમ સંપત્તિને સ્વાધીન કરી આપનાર, વિધાતાની જેમ સંસારના અંત કરનાર અને સ ́સારરૂપી સમુદ્રમાં ડૂબતા જીવાને ધારણ કરનાર તે જ સાચા ધમ છે. ૫૩૩૫૫ ૩૪ ॥ जनुष्मतां शालिशया इवात्मना पुनर्भवोद्भावविधायिनोऽनिशम् । योऽयमी सन्ति समग्र मेदिनीधवावतंसीकृत पादपङ्कज ॥ ३५ ॥ समग्रा ये मेदिनीधवाः पृथिवीपतयो राजानस्तैरवतंसीकृतं शेखरी प्रणीतं पादपङ्क यस्य स तस्य संबोधने । अमी देवो गुरुर्धर्मश्च त्रयोऽपि जनुष्मतां जन्मभाजां भविकानां
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy