________________
सर्ग १४ श्लो ४१-४२ ]
हीरसौभाग्यम्
४८१
वदन्ति वाचंयमपुंगवास्त्रिधा मृषा न भाषामपि जीवितव्यये । इयं यदंहःपटलीव दुर्गतेर्विमानताया अतिशायि कारणम् ॥ ४१ ॥
- हे साहे, वाचंयमपुंगवाः साधुसिन्धुराः जीवितव्यये प्राणत्यागेऽपि त्रिधा मनावचनकायः कृत्वा मृषा अलीकां भाषां वाचन वदन्ति न ब्रुवन्ति । यत्कारणादिय मृषा भाषा विमानताया अवगणनायाः पदे पदे अपमानस्य अतिशयते सर्वेभ्योऽभ्यधिकीभवतीत्येवंशीलमतिशायि कारणं साधनं वर्तते । मिथ्याभाषी सर्वत्राप्यपमानं पराभव च प्राप्नुयात् । केव । अंहःपटलीव । यथा अंहसां दुष्कृतानां पटली परम्परा दुर्गतेरतिशायि साधनमास्ते ॥
શ્લેકાર્થ
હે રાજન, બીજા વ્રતમાં સાધુપુરુષે મનવચનકાયાથી પ્રાણુતે પણ અસત્ય બેલતા નથી. જેમ પાપોની પરંપરા દુર્ગતિનું કારણ છે તેમ અસત્ય ભાષા અવશ્ય સર્વત્ર અપમાન અને તિરસ્કારનું કારણ બને છે. ૪૧ છે
यशःसुधांशोरपिधायिका कुहूरिवादशालोलदृशः प्रियासखी। समूहनीवारजसामिवाङ्गिनां गुणावलीनामनृता हि भारती ॥४२ ॥
हे साहे, निश्चितमनृता असत्या भारती वाणी मृषा भाषा कुहूरमावास्येव यशः जगत्प्रसारिकीर्तिकलापः स एव सुधांशुश्चन्द्रमास्तस्यापिधायिका । 'व्रजति कुमुदे मोहं दृष्टा दृशोरपिधायिका' इति नैपधे । पुनरुत्प्रेक्ष्यते-अत्र इवशब्दो घण्टालालान्यायेन उभयत्र योज्यते । अदशा विरुद्धदशा । तदन्यतद्विरुद्धतदभावेषु ना वर्तते सारखतोक्तः। दुर्दशा सैव लोलहक्कामिनी तस्याः प्रियसखी इष्टवयसीव । च पुनरुत्प्रेक्ष्यते-अङ्गिनां प्राणिनां गुणानां शीललजार्जवमार्दवादीनामावलीनां धोरणीनां समूहनी संमार्जनीव। लोके 'सारवणी' इति प्रसिद्धा । केषामिव । रजसामिव । यथा धूलीनां ग्रहादिकत्ववरकाणां प्रमार्ज. नकारिका । निष्काशयित्रीत्यर्थः ॥ इति द्वितीयं व्रतम् ॥
કાર્થ
આ અસત્ય ભાષા, અમાવાસ્યાની કાજળઘેરી રાત્રિની જેમ યશરૂપી ચન્દ્રને આચ્છાદિત કરનારી છે, દુર્દશારૂપી સ્ત્રીની પ્રિય સખી છે, અને કચરાને દૂર કરનારી સાવરણીની જેમ પ્રાણીઓના સદ્ગુણોને દૂર કરનારી છે, છે हि० सौ० ६१