________________
-
-
७५६
होरसौभाग्यम्
[सर्ग १६ श्लो० १२७-१२८
इति किमु सुरवृक्षानैहिकार्थान्ददाना
स्तृणयति खगरावैर्यद्वटः सिद्धनामा ॥ १२७ ॥
सिद्ध इति नाम यस्य तादृशो यो वटः न्यग्रोधः यस्य वर्बुजयस्य वटो यद्वटः प्लक्षः। 'सिद्धवड' इति प्रसिद्धः । स खगानां पक्षिणां रावैविरुतैः इह लोके भवा ऐहिकास्ते च ते अर्था अभिलाषास्तान्ददानान्पूरयतः सुरवृक्षान् कल्पद्रुमान् तृणयति तृणप्रायान् कुरुते । अवगणयतीत्यर्थः । उत्प्रेक्ष्यते-इति हेतोः किम् । इति किम । त्रिजगति त्रैलोक्येऽपि । त्रिभुवनजनानामित्यर्थः। ऐहिका इहलोकसंबन्धिनीः आमुष्मिकाः परलोकसंबन्धिनीः हृदभि. लषिता हृदयेन मनसा कामिताः सिद्धीर्ददतो यच्छतो मे मम पुरोऽग्रे भोः कल्पवृक्षाः यूयं के वराका आध्वे वर्तध्वे । अकिंचित्करत्वेन न केऽपीत्यर्थः ।।
બ્લેકાર્થ
શત્રુજયમાં “સિદ્ધવડ નામનું વડવૃક્ષ શેભે છે, તે જાણે “ત્રણે જગતના ઈહિલૌકિક અને પારલૌકિક મારીને પૂર્ણ કરતા એવા મારી આગળ તમે શું માત્ર છે!” આ પ્રમાણે પિતાના (વૃક્ષ) ઉપર રહેલાં પક્ષીઓના અવાજથી આ લેકસંબંધી જ મનેરને પૂર્ણ કરનારાં કલ્પવૃક્ષેની જાણે અવગણના કરતું ન હોય ! અર્થાત્ કલ્પવૃક્ષોને તૃણપ્રાયઃ ગણતું ન હોય ! તેવું શેભે છે. ૧૨૭
यस्मिन्नित्थमशापि पात्रसलिलक्षेपात्क्रुधा साधुना
काकः कोऽपि कदापि मास्त्विह नगे जातप्रवेशः कचित् । मातङ्गो महतामिवौकासि ततस्तत्राप्यभूदक्षयं
स्थाने तद्वचसाम्बु पद्मनदवद्विश्वकमाहात्म्यभृत् ॥ १२८॥
यस्मिन्नगे विमलाद्रौ पात्रान्नालिकेरामत्रात् 'उलषो' इति प्रसिद्धात्सलिलस्य जलस्य क्षेपात्क्षेपणाल्लोकोक्त्या ढोलणात् क्रुधा कोपेन केनापि अनिर्दिष्टनाम्ना साघुना मुनिना कोऽपि स्वपात्रपानीयक्षेपकः काकः इत्थममुना प्रकारेणाशापि शप्तः । इत्थं कथम् । यदिह नगे अस्मिन् शत्रुजये क्वचित्कुत्रापि शैलसंबन्धिनि प्रदेशे स्थानके कदापि कस्मिन्नपि प्रस्तावे कोऽपि कश्चिदपि स्वजातीयः काको वायसो जातो भूतः प्रवेशः समागमो यस्य तादृशो मा भूत् मास्ताम् । कोऽपि काको मात्रागच्छत्वित्यर्थः। क इव । मातङ्ग इव । यथा चाण्डालो महता. मत्तमजातीयानामोकसि गृहे जातप्रवेशो भवेत् । ततः शापदानानन्तरं मध्यंदिनदिनकरप्रसरत्करनिकरप्रबलतापोद्भतप्रभूततृषाशुष्यन्मुखोष्ठतालुरसनात्याकुलबालवृद्धादिसंघजनात्यर्था