SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ७५४ __ हीरसौभाग्यम् [सगे १६ श्लो० १२५ अत्र शत्रजय शैले चिल्लण इति आख्या नाम यस्य तादृशः तटाकः श्रिय शोभामयति गच्छति । प्राप्नोतीत्यर्थः। किंभूतः। कलित ललितं गमनागमनादिविलासो यस्तादृशाः तथा रङ्गन्तश्चलन्तस्तुङ्गा उच्चस्तरा गगनावगाहिनस्तारङ्गाः कल्लोलसमूहाः । अत्र समूहार्थेऽणप्रत्ययः। तथा 'वारंवार तारतरस्वरनिर्जितगङ्गातारङ्गाम्' इति पद्मसुन्दरकृतभारतीस्तोत्रे । तेषां सङ्गोऽस्त्यस्यास्मिन्या । पुनः किंभूतः । मिलन्तो मकरन्दपानार्थ लोलुपतया आगत्य एकत्रावस्थितिं कुर्वन्तो ये अलिनो भ्रमरास्तेषां कुलं सजातीयवृन्दानि । 'कुल तेषां सजातीनाम्' इति हैम्याम् । तेषां केली क्रीडा यत्र तादृशः स्मेरन्विकाश प्रामुवन् । 'स्मेर दम्भोजखण्डाभिः'इति पाण्डवचरित्रे। अम्भोजानां कमलानां पक्षो वजो यत्र । उत्प्रेक्ष्यते-नन्दीसर इव । यथा पूर्वोक्तविशेषणविशिष्टमिन्द्रसरोवर श्रियं श्रयति । अतद्वयमपि किंभूतम् । दनुजानां दानवानामरयो वैरिणो देवास्तेषां श्रेणिभिर्धारणीभिः सेव्यमानम् । मोक्षार्थ क्रीडार्थ च चिल्लणनन्दीसरसोविशेषणम् ॥ કાર્થ જેમાં ગમનાગમનના વિલાસથી ચંચલ બનેલા ઊંચા તરંગે છે, અને જેમાં મકરંદપાન કરવા માટે આવેલા લુપી ભ્રમરોનો સમૂહ છે તેવું દેથી સેવાયેલું ‘ચિલણ” નામનું તળાવ દેવોના નંદીશ્વર સરોવરની જેમ શેભે છે. ૧૨૪ છે क्वचिदुपरिकपर्दिप्राक्सरः पालिशालि स्मितशिखरिशिखाग्रस्थायुकानेकपक्षि । विलसति विमलाद्रौ स्वां जडाधारभावा भ्युदितजगदकीर्ति हन्तुमेद स्थितं किम् ।। १२५ ॥ विमलाद्रौ शत्रुजयशैले क्वचित्कुत्रोपि स्थानके उपरि अधित्यकाप्रदेशे कपर्दि इति शब्दः प्राक् पूर्व यस्य तादृश सरो विलसति शोभते । किंभूतम् । पालौ सेती जलवारणके शालन्ते शोभन्ते इत्येवंशीलाः, तथा स्मिता विकसिताः कुसुमिताश्चये शिखरिणः पादपास्तेषां शिखानां शाखानामग्रेषु उपरितनप्रदेशेषु स्थायुका वसनशीलास्तिष्ठन्तीत्येवंशीला उपविष्टा अनेके विविधजातीयाः पक्षिणो विहंगमा यत्र तत् । उत्प्रेक्ष्यते-स्वां स्वकीयां डलयोरक्याद्भावप्रधान निर्देशाच्च जलाधारत्वेन अथ वा भावप्रधानत्वेन विना जडानामाधारत्वेनाभ्युदितां प्रकटीभूतामुत्पन्नां वा जगति विश्वे अकीर्तिमपयशो हन्तुं किं निवारयितुमिवैत्यागत्य स्थितम् ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy