SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ७५० हीरसौभाग्यम् [सर्ग १६ श्लो० ११८-११९ स्वर्णोदयार्बुदब्रह्मगिर्याद्यष्टशतोन्मितैः । सुतैरिवोत्तङ्गशृङ्गेः परितः परिवारितः ॥ ११८॥ यः श्रीशत्रुजयपर्वतः उत्तुङ्गनावगाहिभिः शृङ्गः शिखरैः परितः सर्वतश्चतदिन च परिवारः परिच्छेदः सजातोऽस्येति परिवारितः । परिचारयुक्तो जात इत्यर्थः। किंभूतैः शृङ्गः । स्वर्णगिरिः-उदयगिरिः-अर्बुदगिरिः-ब्रह्मगिरिः एते चत्वारः शैला आदौ प्रथम यस्य तादृशेन अष्टाभिरधिकेन शतेन उन्मितः प्रमाणीकृतैः। उत्प्रेक्ष्यते-उच्चैः शिरोभिः अथ वा उत्प्राबल्येन तुङ्गेभ्योऽपि महद्भयोऽपि तुङ्गमहद्भिः। 'तं मानतुङ्गमवशा समुपैति लक्ष्मीः' इति भक्तामरस्तवे । मानेन तुङ्गो महान् इति मानतुङ्गः । सुतैनन्दनैरिव परिवारकलितः॥ કાર્થ “ચારે દિશામાં રહેલા સુવર્ણગિરિ, ઉદયગિરિ, અબુદગિરિ, અને બ્રહ્મગિરિ આદિ ગગનચુંબી એકસો આઠ શિખરેથી પરિવરેલે શત્રુંજય પર્વત શેભે છે, તે જાણે પિતાના પુત્રપત્રોથી પરિવારે ન હોય! આ ૧૧૮ | तीर्थमास्ते न विश्वेऽप्यदःसंनिभं विश्वकर्केति रेखा किमेषा कृता । स्वर्गिणां निम्नगावत्पुनाना जनान्यत्र शत्रुजये भाति कल्लोलिनी ॥ ११९ ॥ यत्र शत्रुजये शैले शत्रुजयनाम्नी कल्लोलिनी भाति नदी शोभते । किं कुर्वाणा । जनान् भविकलोकान् पुनाना पवित्रीकुर्वाणा । किंवत् । निम्नगावत् । यथा स्वर्गिणां देवानां निम्नगा गङ्गा परशासनलोकप्रसिद्ध्या लोकान्पुनीते । उत्प्रेक्ष्यते-त्रैलोक्येऽपि विश्वत्रयेऽपि अदःसंनिभम् अस्य विमलाद्रेः संनिभ तुल्यमन्यत्तीर्थ नास्ते लोकान् जगन्जनानिति वक्तुं वा विश्वक; जगत्सृष्टिकारकेण विधिना एषा प्रत्यक्षलक्ष्या शत्रुजया नदी किमु रेखा कृता विहितेव ॥ શ્લેકાર્થ ગંગાનદીની જેમ ભવ્ય જેને પવિત્ર કરતી શત્રુંજય પર્વતની “શત્રુપી” નદી શોભે છે, તે “ત્રણે લેકમાં વિમલાચલતીર્થ સમાન અન્ય કઈ પણ તીર્થ નથી,” આ પ્રમાણે કહેવા માટે જાણે બ્રહ્માએ નદીરૂપે રેખા બનાવી ન હોય ! છે ૧૧૯
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy