________________
सर्ग १६ श्लो १२०-१२१]
हीरसौभाग्यम्
७५१
केवलज्ञानितीर्थे शतीर्थे पुरा स्नात्रनिर्मित्सयेशानजम्भद्विषा । सिद्धसिन्धोर्मुदानायि यस्मिन्नसौ जहुनेव प्रवाहो नगेऽष्टापदे ॥ १२०॥
पुरा पूर्व गतचतुर्विशत्यास्तृतीयारकस्यादिसमये केवलज्ञानिनामा प्रथमतीर्थकरस्तस्य तीर्थे शासने वारके वा तस्मिन् जिते विद्यमाने वा यस्मिन् शत्रुजयनाम्नि नगे गिरौ प्रथमस्थापितप्रासादे स्नात्रनिमित्सया अर्थात्केवलज्ञानितीर्थकृन्मूर्ते रेव स्नात्रस्य कर्तुमिच्छया ईशाननाम्ना द्वितीयपदे लोकनायकेन जम्भद्विषा इन्द्रेण सिद्धसिन्धोर्वेताढ्यशैला न्तर्वर्तिन्या गङ्गाया मध्यादसौ शत्रुजयाभिधाना सिन्धुरा नायता आनीता वा इत्येषा कथा शत्रुनयमाहात्म्येऽम्तीति । केनेव । जनुव । यथा सगरचक्रिणः षष्टिसहस्रसुतेषु ज्येष्ठेन नन्दनेन अष्टापदाभिधाने नगे भूधरे अर्थात्काञ्चनप्रासादमणिमयप्रति मारक्षाकृते । दण्डरत्नकारितसहस्रयोजनोद्वेधकैलाशशैलपरितः खातिकाखातपूरणार्थमित्यर्थः । सिद्ध. सिन्धोः संनिधिर्तिमन्दाकिन्या एव प्रवाहो दण्डरत्नेनैव पानीयोऽथ आनायि इत्येषामपि कथा शत्रजयमाहात्म्ये एवास्ते ॥
શ્લોકાર્થ
“અષ્ટાપદ તીર્થની રક્ષા કરવા માટે સગર ચકવર્તીના જયેષ્ઠ પુત્ર જ જેમ દંડરનથી ગંગાના પ્રવાહને લાવ્યું હતું, તેમ ગઈ એવીશીના પ્રથમ તીર્થંકર “કેવલજ્ઞાની”ના તીર્થ સમયે શત્રુંજય પર્વતના જિનપ્રસાદમાં પ્રતિષ્ઠિત કરેલી કેવલજ્ઞાનીની મૂર્તિને અભિષેક કરવા માટે ઇશાનેન્દ્ર વૈતાઢય પર્વતમાં રહેલી ગંગાનદીના પ્રવાહને લઈ આવ્યું હતું, તે જ આ શત્રુંજયી નદી તરીકે પ્રસિદ્ધ છે. જે ૧૨૦
रसकूपीदिव्यौषधीसुवर्णमणिरत्नभूमिरेष गिरिः। शिव इव सकलाः सिद्धीः पुनर्दधानः श्रियं श्रयते ॥ १२१॥
एष शत्रुजययाख्यो गिरिः पर्वतः श्रियमद्वैतवैभवत्वेन शोभा श्रयते धत्ते । किंभूतः। रसकूपीनां लोहताम्रादीनां हेमविधायकै रस: परिपूर्णानां लघुकूपानां तथा दिव्यानां देया. धिष्ठातृत्वेन महाप्रभावाणामौषधीनां सुवर्णरजतकारकाष्ठमहाभयस्तम्भकरोगविनाशकनिधिद्रव्यादिदर्शकाखिलकामितकारकादीनां विविधजटिकानां सुवर्णानामुपलक्षणाप्यत्रपुसीसकताम्रलोहादीनां मणीनां चन्द्रकान्तादीनां रत्नानां कर्केतनप्रमुखाणां भूमिरर्थात्स्व
दिखनीनामुत्पत्तिस्थानम् । पुनः किं कुर्वाणः। सकलाः सर्वजातीयाः सिद्धीर्दधानो धारयन् धत्ते । दारणं तु युक्तमेव । यतः स्वस्मिन् स्वस्य वा यद्भवति तत्परस्मै दीयते परं