________________
सर्ग १६ श्लो० ११०]
हीरसौभाग्यम्
७४५
कटीकरणप्रथमसमये । पुनः किंभूतः । कलो मनोज्ञो यो मरालो राजहंसस्तवल्लीलया मन्थरत्वेन न त्वौत्सुक्येन त्वरिततया वा चापल्येन वा गतिर्गमन' यस्य । किंवत् । सरोजतनुजन्मवत यथा पदमाङ्गजन्मा विधाता । ‘पदमनन्दनसुतारिरसुता' इति नैषधे। युगानां कृतवापरत्रे. ताकलिनाम्नां कालविशेषणामादिसमये जगतां सुरासुरनरनारकतिरर्धा समग्रां गृहाट्टनगन. गरादिकां सृष्टि सृजति स्म । कलमरालेन कृत्वा क्रीडया गमनं यस्य हंसवाहनत्वात् ॥
મકાઈ કાલ નામના દૈત્યને ભેદનાર, જેમના અર્ધઅંગરૂપે પાર્વતી રહેલી છે, તેમજ જેમનું નામ મૃત્યુંજય છે, તેવા ઈશ્વરની જેમ કલિકાળને ભેદનારા, શિવલમીને આશ્રય કરનારા, અને જન્મમરણથી રહિત, આકાશની જેમ નિરાલંબ, અને ગ્રહનક્ષત્રતારારૂપ
જ્યોતિશ્ચકસમાન ભામંડલને ધારણ કરનારા અને બ્રહ્માની જેમ યુગની આદિમાં સમસ્ત ' લૌકિક વ્યવહારરૂપી સૃષ્ટિનું સર્જન કરન ર એવા હે ભગવંત, આપ જયવંતા
पो. ॥ १०८ ॥
शरत्समयपङ्कजाकर इव प्रसन्नाशयः
कुशेशयपलाशवनिरुपलेपभावं भजन् । प्रमद्वरपदं दधन च कदापि भारुण्डव
द्विशेषक इवालिकं विमलभूधरं भूषयन् ॥११० ॥
. हे वृषभध्वज जिनेन्द्र, त्वं जयेति संबन्धः । त्वं किंभूतः। शरत्समयो जलवाहविरामकालस्तस्य तस्मिन्वा यः पङ्कजाकरस्तटाकः तद्वत् प्रसन्नः प्रसादोपेत: अच्छोऽनाविल आशयो हृदयं मध्यं यस्य । पुनः किं कुर्वन् । कुशेशयं कमलं तस्य पलाशं पत्र तदिव निर्गत उपलेपः स साराभिष्वङ्गः लिम्पनं च यस्मात्तस्य भावस्तत्ताम् । निर्लेपतामित्यर्थः। भजन्नाश्रयन् । च पुनः कदापि कस्मिन्नपि समये भारुण्डवद्भारुण्डपक्षीव प्रमहरपदं प्रमादस्थानम् । प्रमत्ततामित्यर्थः। 'जनैव दधत् मा भूः कापि प्रमद्वरः' इति पाण्डवचरिको। पुनः किंभूतः। विमलभूधरं शत्रुजयशैलं भूषयन्नलंकुर्वन् । क इव । विशेषक इव । यथा तिलको ललाटं भूषयति ।। इति हीरसूरिकृता ऋषभदेवस्तुतिः ॥
શ્લોકાથ શરદઋતુના સરોવરની જેમ સ્વચ્છ આશયવાળા, કમલની જેમ નિર્લેપ, ભારંડપક્ષીની જેમ અપ્રમત, અને તિલકની જેમ શત્રુંજયના શણગાર એવા હે ભગવંત, આપ જયવંતા, વ. | ૧૧૦ || हि० सौ० ९४