________________
७४६
हीरसौभाग्यम्
सर्ग १६ श्लो० १११-११२
इत्यभिष्टुत्य सूरीश्वरः श्रीजिनं भालविन्यस्तहस्तद्वयाम्भोरुहः । इप्यशाखी फलारिवामोदवान्प्राणमद्भूतलालम्बिमौलिस्थलः ॥१११॥
भूतल पृथ्वीपीठमालम्बते इत्येवंशील मौलिस्थल मस्तकं यस्य तादृशः सन् सूरीश्वरो हीरविजयसूरिवासवः श्रीजिनमृषभदेव प्राणमत्प्रणनाम नमस्करोति स्म । किं कृत्वा भाले ललाटे विन्यस्तं स्थापितं हस्तयोर्द्वयं करयोयुगलमेवाम्भोरुहं कमल येन तादृशः सन् इति पूर्वोक्तकाव्यैरभिष्टुत्य स्तुतिं कृत्वा । किंभूतः सरिः। फलाप्तेः श्रीशत्रुजययात्राऋषभदेवदर्शनादिरूपफलस्य प्राप्तेः सकाशादामोदवान् परमानन्दकन्दकन्दलितहृदयः । क इव । इष्यशाखीव । यथा वसन्ततरुर्भूतले मेदिनीमण्डले मिलन्त्यो मस्तकस्य शिखरस्य शाखा यस्य तादृशः फलानामुपलक्षणात्पल्लवपत्रकुसुमानां च लाभादामोदवान्परिमलकलितः प्रकर्षेण नमति ॥
બ્લેકાર્થ
જેમ વસંતવૃક્ષ ફળની પ્રાપ્તિથી પરિમલયુક્ત બને તેમ યુગાદિનાથનાં દર્શનારૂપ ફલથી પ્રમોદને ધારણ કરનારા આચાર્યદેવે લલાટપટે કરકમલને સ્થાપના કરી અને ભૂતળને વિષે મસ્તક નમાવીને યુગાદિનાથને નમસ્કાર કર્યો. તે ૧૧૧
निववृते प्रमदेन्दिरयान्वितः स जिनगर्भगृहान्तरतस्ततः । चतुरिकोदरतोऽभिनवोढया वर इवामृतदीधितिवक्त्रया ॥ ११२॥
ततो जिनस्तुतिनुतिकरणानन्तरं स सूरिजिनस्य ऋषभदेवस्य यो गर्भगृहो गर्भा. गारस्तस्यान्तरतो मध्यान्निववृते निवृत्तः पश्चाद्ववले । निववृते स महार्णवरोधस.' इति रघौ । बहिराजगामेत्यर्थः। किंलक्षणः । प्रमदेन्दिरया प्रमोदलक्ष्म्या अन्वितो युक्तः । क इव । घर एव । यथा वरयिता परिणेता अभिनवोढया तात्कालिकपरिणीतया अमृतदीधितिवक्त्रया चन्द्रमुख्या आह्लादकृदनया सहितः । चतुरिकोदरतः 'चरी' इति प्रसिद्धाया मध्यतः गर्भान्निवर्तते बहिरागच्छति ॥
લોકાર્થ
જેમ નવે પરણેલે પતિ, ચન્દ્રમુખી નવેઢાની સાથે ચારમાંથી બહાર આવે તેમ આચાર્યદેવ આનંદરૂપી લક્ષમીની સાથે ગભારામાંથી બહાર પધાર્યા. મેં ૧૧૨