________________
-
सर्ग १६ श्लो० १०२]
हीरसौभाग्यम्
७३९
द्यन्तस्य परत्वम्' इति सूत्रेण मवनस्य परत्वम् । तस्मिन् गर्भागारे। उत्प्रेक्ष्यते-देवेत्यादिपदेन युनक्ति योग प्राप्नोति संबन्धं लभते इति देवयुक् तादृशश्छन्दकः। स्वार्थ कः । एतावता देवच्छन्दकस्तस्मिन्निव । प्रागपि समवसरणे मध्ये प्राकारान्तर्देवच्छन्दक आसीत्, तत्र च सुखं तिष्ठन्नासमानः शयान आसीत्तद्वत् । किं कृत्वा मुदमविन्दत । जिनेशितुः श्रीवृषभध्वजस्य जननी मातरं प्रणम्य मरुदेवी प्रणाम विषयोकृत्य । किं चत्रुषी। इभस्य गजराजस्य अंसं स्कन्धमासेदुषीमाश्रितवतीम् । आरूढामित्यर्थः यदुक्तं स्थानाङ्गे चतुर्थस्थानकचतुरन्तक्रियाधिकारे-'मरुदेवा हि स्थावरत्वेऽपि क्षीणप्रायकर्मत्वेनाल्पकर्मा अविद्यमानमानतपोवेदना च सिद्धा गजवराहरूढाया एवायुःसमाप्रौ सिद्धत्वात् ।' इत्ति ॥
શ્લેકાર્થ
હાથીના હોદા ઉપર બેઠેલાં મરૂદેવા માતાને પ્રણામ કરીને, દેવછંદોની જેમ ગભારામાં બિરાજમાન સાક્ષાત ભગવંત જ ન હોય તેવી શ્રીષભદેવની પ્રતિમાને વિકસ્વર નેત્રકમલ વડે જોઈને, આચાર્યદેવે વચનાતીત અને કલ્પનાતીત આનંદ પ્રાપ્ત કર્યો. ૧૦૧ છે
जिनानननिशीथिनीमणिनिरीक्षणप्रोल्लस
ध्धृदन्तरमुदम्बुधिस्फुरदभङ्गभङ्गरिव । स गौतमगणीन्द्रवञ्चरममादिमं श्रीजिनं
सुधामधुरिमाङ्कितैरभिनवैः स्तवैरस्तवीत् ॥१०२॥
स सरिरादिमं प्रथमं श्रीजिनमृषभं सुधावत् पीयूषैरिव मधुरिम्णा माधुर्यण अङ्कितः कलितस्तथा अभिनवैनवीनैः स्वयं विहितैः स्तवैः स्तोत्रैः अस्तवीत् तुष्टुवे । 'ष्टुन स्तुतौ' धातुरुभयपदी। किंवत् । गौतमवद्गणीन्द्रवत् । यथा गौतमनामा गणिनां साने प्रवचने अधीतानां मध्ये इन्द्रो गणधरश्वरमं श्रीजिन महावीरं भगवन्तम् अथ वा शत्रजये यात्रार्थ: समेतो जगञ्चिन्तामणिः इति नमस्कारो नाभिनरिन्दमहार इति स्तवन मित्यादि प्रधोषान् स्तवैश्च स्तौति स्म । अधः स्तवैः । उत्प्रेक्ष्यते-जिनस्यादिदेवस्य आनन मुख तदेव निशीथिनीमणिश्चन्द्रः । निशारत्नकरौ च चन्द्रः' इति हैम्याम् । तस्य निरीक्षणेन दर्शनेन प्रोल्लसनुद्वेलीभवन यो हृदन्तरे मनोमध्ये मुदानन्दरूप एवाम्बुधिः समुद्रस्तस्य स्फुरन्तो विस्तरन्तो ये अभङ्गाः भङ्गाः कल्लोलास्तैरिव ।
શ્લેકાર્થ
અને ગૌતમ ગણધરની જેમ આચાર્યદેવે સુધાસારિણી મધુર વાણીથી નવનવા સ્તોત્રો વડે યુગાદિજિનની ભક્તિભાવપૂર્વક સ્તુતિ કરી. તે સ્તુતિ જાણે જિનેશ્વરરૂપી