SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ७३८ हीरसौभाग्यम् [सर्ग १६ श्लो० १००-१०१ स भक्तमिव नाभिभूप्रभुपुरोऽनिशस्थायिन प्रणम्य गणधारिणं तदनु पुण्डरीकाभिधम् । जिनेन्द्र इव देशनासदनमादिदेवालयं समं मनुजराजिभिः श्रमणपुंगवः प्राविशत् ।। १००॥ श्रमणेषु साधुषु पुंगवः प्रधानः श्रेष्ठः । 'स्युरुत्तरपदे व्याघ्रपुंगवर्ष भकुञ्जराः' इति है. म्याम् । तथा 'पुंगवो गवि भैषज्ये प्रधाने चोत्तरस्थितः' इत्यनेकार्थः। अथ वा श्रमणानां मध्ये पुंगवो वृषभो गणभारधुरंधरत्वात् सूरिर्मनुजराजिभिः भव्यलोकमालिकाभिः सममा दिदेवालयमृषभप्रासाद प्राविशत्प्रविशति स्म । क इव । जिनेन्द्र इव । यथा तीर्थकर: सुरासुरनरैः सार्ध देशनासदन समवसरण प्रविशति । किं कृत्वा । तदनु जस्ठाररामजीसाहिविहारयोर्भगवद्विम्बप्रणमनादनु पश्चात्पुण्डरीक इत्यभिधा नाम तादृशं गणधारिणमृषभजिनप्रथमगणधरम् । यदुक्तम्-'ऊस प्पिणीण पढम सिद्धौ इह पढमचक्विपढमसुउ । पढमजिणस्सपपढमो गणहीरीजच्छपुण्डरिउ ॥' इति शत्रुजल्पकल्पे। प्रणम्य नमस्कृत्य । किंभूतम्। नाभिनानः कुलकराभ्दुरुत्पत्तिर्यस्य तादृशो मारुदेवदेवः स एव प्रभुः खामी जगन्नायकस्तस्य पुरोऽग्रे दृग्गोचरे अनिशमहोरात्रं तिष्ठतीत्येवंशीलम् । कमिव । भक्तमिव । यथा सेवासक्तः पुमान् खामिपुरस्तानात्यासन्ने नातिदूरे तिष्ठति ।। લેકાર્થ ત્યારબાદ નીરંતર અષભદેવ ભગવંતની આગળ રહેલા આ ઉત્સર્પિણીના પ્રથમસિદ્ધ પ્રથમચક્રવર્તીના પ્રથમ પુત્ર અને પ્રથમ તીર્થંકરનાં પ્રથમ ગણધર શ્રી પુંડરીક સ્વામિના દર્શન કરીને, જેમ સુરાસુરથી પરિવરેલા તીર્થંકરભગવંત સમવસરણની ભૂમિમાં પ્રવેશ કરે તેમ સંઘની સાથે આચાર્યદેવે મૂલપ્રાસાદ ઋષભવિહારમાં પ્રવેશ કર્યો. ૧૦૦ प्रणम्य जननों जिनेशितुरिभांसमासेदुषी __स गर्भभवने पुनः किमु न देवयुक्छन्दके । जिनं खयमिव स्थितं विकचनेत्रपत्रैः पिब नवाङ्गनसगोचरां मुदमविन्दत श्रीगुरुः ॥१०१॥ स हीरविजयसूरिरिति नाम्रा प्रसिद्धः श्रिया गणभृल्लक्ष्म्या युक्तो गुरुस्तत्त्वज्ञः जैनश्राद्धानां धर्मोपदेष्टा जिनं श्रीऋषभतीर्थ करं विकचैविनेत्रपत्रैः। पूज्यत्वावहुत्वम् । नयनकमलदलैः पिबन सादरमवलोकयन सन अवामनसयोर्न वचनचेतसोचिरं विषयातीतम् । वाचा वन न शक्यते चेतसा च ज्ञातुं न पार्यते इत्यर्थः। तादृशीं मुदमानन्दमविन्दत प्राप्नोति स्म । किंभूतं जिनम् । स्थितं स्थितिं कृतवन्तम् । उत्प्रेक्ष्यते-खयमात्मनैव मोक्षादागत्यात्र तस्थिवांसमिव । क स्थितम । गर्भभवने भवनस्य गर्दा गर्भभवनः । 'कचिदमा
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy