SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सर्ग १६ श्लो० ९६] हीरसौभाग्यम् ____७३५ तदा प्रदक्षिणादानन्दसरसमूगिर्जिनाधिपतिकेतनस्य मूलचैत्यस्याभितः परितश्चतुर्दिनु देवकुलिकानां लघुदेवगृहाणां 'देहरी' इति प्रसिद्धानामन्तरे मध्ये जिनपुरंदगन भगवत्प्र. वरप्रतिमाः संमदादानन्दादवन्दत नमस्करोति स्म । ततः कतिचिद्देवकुलिकासु जिन बि. म्बवन्दनानन्तर प्रमुदितेन हृष्टमनसा विभुना गणस्वामिना गुरुणा पुरोऽग्रे राजादनी क्षीरिका 'रायणि' इति प्रसिद्धा । 'नवनवति पूर्ववारान् यस्मिन्समवसरयद्यगादिजिनः । राजादनीतरुतले विमलगिरिरयं जयति तीर्थम् ॥' इति पूर्वसरिकृतस्तुतौ । व्यलोकि दृष्टा । किंभूता । सुराणां चतुनि कायिकदेवानां परम्पराभिः श्रेणीभिरुपासिता सेविता । केव । मरुतां भवनपतिव्यन्तरज्यौतिष्कविमानिकानां वसतिनिवासस्थान मिघ । यथा मरुद्वसतिः सुरालीभिः परिशीलिता आस्ते ॥ શ્લેકાર્થ ત્યાં મૂલ પાસાદની ચારેતરફ દેવકુલિકા(દહેરી) માં રહેલાં જિનબિંબને હર્ષ. પૂર્વક પ્રણામ કર્યા, ત્યારપછી આચાર્યદેવે અનેક દેથી લેવાયેલા દેવાધિષ્ઠ એવા "२२५४क्ष" ने यु. ॥६५॥ अवऱ्यात स मौक्तिकै रजतहेमपुष्पव्रजै जगद्गुरुरिवाङ्गिभिः सुमनसां समूहैः श्रिता । गिरेरिव धनागमोन्नमदमन्दकान्दम्बिनी ववर्ष पयसां भरैः शिरसि संघभर्तुश्च या ॥९६॥ या राजादनी अङ्गिभिर्यात्रिकसंघलोकैः सह मौक्तिकैर्मुक्ताफलवर्तन्ते ये तादृशा रजतानां रुप्यसंबन्धिनां हेम्नां सुवर्णसंबन्धिनां पुष्पाणि कुसुमानि अथ वा रजतानि स्वर्णानि पुष्पाणि जलस्थलजातानि कमलमालतीप्रमुखाणि तेषां व्रजाः समूहाः तैरवऱ्यात वर्धिता । क इव जगद्गुरुरिव । यथा तीर्थ नाथः अङ्गिभिर्भव्यजनैः सुरासुरनरैमौक्तिककलितरजतमहारजतमयसुमैः स्वाभाविककुसुमैश्च वय॑ते । किंभूतानाम् । सुमनसां पुष्पाणां देवानां च । 'प्रतिशाख प्रतिपत्र प्रतिफल देवैरधिष्ठिता' इति शत्रजयमाहात्म्ये । समूहैः श्रिता । जगद्गुरुरपि समवसरणे जानुप्रमाणपुष्पैश्चतुर्निकायनाकि निकरैश्च सेवितः स्यात् । च पुनयाँ सघभर्तुः संघपतेः शिरसि मस्तके पयसां क्षीरवृक्षत्वात्क्षीराणां भरै र्धाराभिर्ववर्ष वृष्टिं कृतवती । केव । घनागमोन्नमदमन्दकादम्बिनीव । यथा घनानां मेघा. नामागमे प्रावतमये । 'वर्षास्तपात्ययः प्रावमेघात्कालागमौ क्षरिः' इति हैम्याम् । उन्नमन्ती जलभरैनम्रीभवन्नी तथा अमन्दा मिलददभ्राभ्रिकाभिर्बहला जायमाना कादम्बिनी मेघमाला गिरेः पर्वतस्य शिरसि शिखरे पानीयानां व्रजैवर्षति ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy