________________
सर्ग १६ श्लो० ९३ ]
सौभाग्यम्
वृषभ केतुर्युगादिदेवः आत्मना स्वयमेवात्र शत्रुंजय मूलविहारे अवतीय' मोक्षादागत्य आत्मनो निजस्य वृषभस्यैव मूर्तेः प्रतिमायाश्छलात्कपटात स्थिरतया अव्यग्रचित्तत्वेन न तु गमनौत्सुक्येन स्थितिं निवास कुरुते । उत्प्रेक्ष्यते - हृदा स्वमनसा कृत्वा इदं वक्ष्यमाणं किं विचिन्त्य विचार्यव । इति किम् । यथा युगस्य लक्षणया चतुर्थारकस्यादेस्तृतीयारकस्य पर्यन्तसमयस्तस्मिन्प्रस्नावे संसृतेः संसारात्सकाशाद्भुवन विश्वमुद्धृत निस्तारित पुनर्द्वितीयवारं तथा तेनैव प्रकारेणाहमृषभः अवधकाले प्रबलपापोपचितसमये कलौ कलियुगे पञ्चमारकेऽपि भुवन' जगदुद्धरामि संसारकारागारादुद्धृत्य सुखेन महानन्दपुर प्रापयामीति ॥ इति ऋषभप्रतिमा ॥
७३३
શ્લેાકા
‘ત્રીજા આરાના અંતે અને ચાથા આરાના પ્રારંભે જેમ મેં જગતનો સંસારથી ઉદ્ધાર કર્યો હતા તેમ દુષમ પાંચમા આરામાં પણ જગતના જીવાના ઉદ્ધાર કરું.” આ પ્રકારનો હૃદયમાં વિચાર કરીને જાણે ઋષભદેવપ્રભુ સ્વય' મોક્ષસ્થાનમાંથી આવીને મૂર્તિરૂપે રહ્યા ન હોય! ॥ ૨ ॥
चतुष्कपृथिवीं ततः परिचरन्स विस्मेरिता
रविन्द सवयोविलोचनयुगेन योगीश्वरः । जगद्विजयिनी जिनाधिपतिवेश्मलक्ष्मी पिबहृदा त्रिजगदिन्दिरां करगतामिवामन्यत ॥ ९३ ॥
योगिनां मनोवचनकाययोगवतां वशीकृतेन्द्रियाणां वा ईश्वरः स्वामी स हीरविजसूरिः हृदा स्वमनसा कृत्वा त्रिजगदिन्दिरां त्रैलोक्यलक्ष्मीं करगतां हस्तप्राप्तामिवामन्यत जानाति स्म । यथा कश्चित्पुमान् जगदाधिपत्यं कथमप्यधिगत्य परमानन्द विन्दति तथा सूरीन्द्रोऽपि प्रासाददर्शनानन्तरमद्वैतां मुदमालोकयांचकार । स किं कुर्वन् । पिबन् सादरमवलोकयन् । काम् । जगद्विजयिनीं त्रिभुवनप्रासादपरम्परावैभव परामवित्र जिना - धिपतिवेश्मनः ऋषभचैत्यस्य लक्ष्मीं शोभाम् । केन । विस्मेरत्व संजातमस्मिन्निति विस्मेति सूर्येण विकासितं यदरविन्द कमलं तस्य सवयसा मित्रेण । ततुल्येनेत्यर्थः । त्रिलोचनयोर्नयनयोर्युगेन द्वन्द्वेन कृत्वा । पुनः स किं कुर्वन् । ततः प्राकारमध्ये आगमनानन्तर चतुष्कपृथिवीं प्रासादाग्रेतन भूमिकाम् 'चरक' इति लोकप्रसिद्धाम् । 'नारीम नांसीव चतुष्कमन्तः' इति रघुवंशे । परिचरन सेवमानः । प्रासादाग्रचतुष्के समेत इत्थर्थः ॥