SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ __ सर्ग १६ श्लो० ८९-९० ] हीरसौभाग्यम् ७३१ જાતિમાંથી ઉદ્ધાર કર, કારણ કે મહાપુરુષે શરણાગતવત્સલ હોય છે. ” છે ૮૮ છે महोदयमृगीदृशा सह विनोदनिर्मित्सया विलासमणिमन्दिरं विमलशैलचूलोपरि । अकारि वृषकेतुना स्वयमिवात्र नाभीभुवा युगादिजिनसद्मनि श्रयति गर्भगेहः श्रियम् ॥ ८९ ॥ युगादिजिनसद्मनि विमलाचलमूलप्रासादे गर्भगेहः गर्भागारः श्रिय शोभा श्रयति । उत्प्रेक्ष्यते-वृषकेतुना जातोक्षध्वजेन ऋषभदेवेन क; स्वयमात्मना अत्र विमलशैलस्य शत्रुजयाद्रेश्धुलिकायां पर्वतोपरिविभागे अधित्यकोर्ध्वप्रदेशे नाभीभुवा सृष्टिकर्ता । विधातुः पाचे इत्यर्थः। विलासार्थ क्रीडाकृते मणिमय मन्दिरं रत्नमन्दिरमकारि कारितमिति । ण्यन्तप्रयोगः । कया । महोदयनाम्न्या मृगीहशा सिद्धिवध्वा सह साधं विनोदस्य विविधविलासस्य निर्मित्सया निर्मातुं काझ्या ॥ શ્લેકાર્થ યુગાદિવિહારનો ગભારો શોભે છે તે જાણે મુક્તિરૂપી મૃગાક્ષી સાથે વિનોદ કરવાની ઇચ્છાથી સ્વયં બ્રહ્માએ વિમલાચલની ચૂલિકા ઉપર રત્નમય ક્રિડા મંદિર બનાવ્યું ન હોય! अनेकनरनिर्जरोरगपुरंदरोपासितं ___ सदासदनमुन्नये विमलशैलभूमीभुजः । वृषाङ्कजिनवासवौकसि विचित्रतौर्यत्रिक प्रपञ्चपटुमण्डपे श्रियमुवाह गर्भालयः॥९०॥ वृषाङ्को युगादिदेव स एव जिनानां सामान्य केवलिनां मध्ये वासवः पुरंदरस्तस्यौको मन्दिरं तस्मिन् गर्भालयो गर्भागारः श्रिय लक्ष्मी शोभामुवाह धारयति स्म । किंभूते ओकसि । विशिष्टानि चित्राण्यालेख्यानि येषां विविधप्रकाराणि वा विशेषाश्चर्यकारकाणि वा तौर्यत्रिकाणि गीतनृत्यवादित्राणां त्रयाणि त्रित्वसंख्याकानि तेषां प्रपश्चो विस्तारस्तेन पटुः प्रकटः स्पष्टभूतो मण्डपो यत्र तत् । तत्र गर्भागारवर्णने अहमेवमुन्नये विचारयामि । 'वितर्कः स्यादन्नयनम्' इति हैम्याम् । विमलशलः श्रीशनंजयादिः स पव भूमिभुक् राजा अथवा विमलनाम्नः शैलानां सर्वपर्वतानां भूमीभुजो राज्ञः सदःसदनं सभागृहमिव । 'नृपस्य नातिप्रमन्नाः सदोगृहम्' इति रघुवंशे । किंभूतं सदनम् । अनेके बहवो ये नराणां मनुष्याणां निर्जराणां देवानामुखाणां नागानामुपलक्षणादसुराणां पुरंदरा इन्द्रास्तैरुपासितं सेवितम् ॥ इति गर्भागारः ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy