________________
सर्ग १६ श्लो० ८७]
हीरसौभाग्यम्
७२९
वृषो वृषभो ध्वजश्चिह्न लाञ्छनं यस्य तादृशो जिना युगादिदेवस्तस्यालयं गृहं ऋ. षभविहारस्तस्य स्तम्भका आधारस्थूणास्तेषामुपधेाजादमी प्रत्यक्षलक्ष्या मन्दरादयः अखिलाः समस्ताः भूभृतः पर्वता उपेत्य अत्र प्रासादे समागत्य प्रभु श्रीऋषभस्वामिनं शीलन्ति भजन्ति । उत्प्रेक्ष्यते-इत्यमुना प्रकारेण गदितं कथयितुमिव । इति किम् । हे जिनेन्द्र युगादिप्रभो, इह जगति यो हरिरिन्द्रस्तव भवतः सेवकस्त्वत्पादपद्मसेवाविधातास्ते सोऽस्माक द्विषन् शत्रुः पक्षच्छेदकर्तृत्वेन प्रबलप्रतिपक्षी वर्तते ततस्तस्मात्कार णाव हे प्रभो, त्वदमुना त्वद्भक्तिभाजा हरिणा सममस्माकं मिथः परस्परं सौहृदै मैत्र्यं सखिभाव विधापय कारय । महात्मना प्रभुणा च स्वयमन्तरा भूयः कृतः संधिः कदा. चिदपि न विघटते इति वक्तमिव ॥ इति प्रासादमध्यस्तम्भाः ।।
પ્લેકાર્થ
કષભવિહારના સ્તન બહાને એરૂઆદિ પર્વતે આવીને શ્રીષભદેવ ભગવંતની સેવા કરે છે. તે પર્વતે જાણે આ પ્રમાણે કહેવા માટે આવેલા ન હોયઃ “હે ભગવન, જે ઇન્દ્ર આપનો સેવક છે તે અમારો શત્રુ છે! માટે હે પ્રભે, આપના ભક્ત ઈન્દ્રની સાથે सभा। ५२०५२ मैत्रीमा स्थापन शो' ! ॥८६॥
अनन्यगुणवाहिनीशितुरनन्तसातैकभूः
कृते तव निरीक्षितात्मज मया शिवस्मेरदृक् । तदेहि वृणु तां कनीमिति समेत्य वक्तु पुरः
स्थितेव मरुदेव्यभात्करिवशांसमासेदुषी ॥ ८७॥
यस्मिन् प्रासादे करिणो हस्तिना वशा पत्नी हस्तिनी । यद्यपि यशाशब्देन करिणी कथ्यते । 'इभः करेणुर्गजोऽस्य स्त्री धेनुका वशापि च' इति हैमीवचनात् । तथापि वशाशब्दो नार्यामेव प्रायो वर्तते । तत्कारणादेव मनुष्यजातिस्त्रीभ्रमनिवारणार्थ च क. रिवशेति प्रतिपादितम् । तस्या अंस स्कन्धमासेदुषी आश्रितवती मरुदेवी नातिनृपपत्नी ऋषभदेवंजननी अभावभौ । उत्प्रेक्ष्यते-इति वक्तुं निवेदयितु समेत्य कुतश्चित्स्थानादागत्य पुरो युगादिदेवस्याग्रे तिष्ठति स्मेव । इति किम् । हे आत्मज औरसपुत्र, अनन्यानामसाधारणानां गुणानां शौयौदार्यधैर्य गाम्भीर्य शौण्डीर्यावमार्दवादीनामी शितुर्भर्तुः समद्रस्य तव भवतः कृते अर्थाय अनन्तानां प्रमाणातीतानां ज्ञातिवचनगोचरातिक्रान्तावसानानां सातानां महासुखानामेका अद्वितीया भूः स्थानं शिवस्मेरदृक् मुक्तिरूपा कामिनी । पाणिग्रहणकरणौत्सुक्याद्रच्यरुच्यावान विलोकयतीत्यत एव स्मेरदृक्त्वं प्रोक्तम् । मक्ति. मानिनी मया तजनन्या निरीक्षिता नितरां सर्वगुणाधारतया प्रथिता विलोकितास्ति । तत्तस्मात्कारणात् त्व वृषभ, एहि त्वरितमागच्छ । आगत्य च तां निर्वृतिनाम्नी कनीम् हि० सौ० ९२