SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ७२८ stratभाग्यम् कुतूहलिकतासितोपलतलोर्ध्वमध्या कचन्महारजतनिर्मिता जिननिकेतनस्तम्भकाः विचित्रसुरविभ्रमं प्रदधतः श्रियं बिभ्रते तलोपरि विचालभाग्वनभृतः किमु स्वर्नगाः ॥ ८५ ॥ [ सर्ग १६ श्लो० ८५-८६ क्वचित्कुत्रचित्प्रदेशे महारजतैः काञ्चनैर्निर्मिता विरचिता जिननिकेतनस्य मूलचैत्यस्य स्तम्भकाः । पादपूरणे स्वार्थे कप्रत्ययः । स्तम्भाः एव स्तम्भकाः प्रासादमण्डपाद्याधारस्थूणाः श्रियं शोभां बिभ्रते कलयन्ति । किंभूताः । स्वर्णघटितत्वेऽपि विशेषमाह - कुतूहलिभिः कैश्चित्कौतुकवद्भिः शिल्पिभिः कृतानि असितोपलानामिन्द्रनीलमणीनां तल स्तम्भाधो विभागः ऊर्ध्वं स्तम्भोपरितनप्रदेशः मध्ये स्तम्भान्तराले तत्र प्रदेशइये । कर्मधारये । मध्यानि येषां ते । किं कुर्वन्तः । विशिष्टचित्ररुपाः सुरा देवा अथ वा विचित्रा विविध जातीयाश्चतुर्निकायिका देवतास्तेषां विभ्रममन्तः कल्पितशिल्पत्वेन विलास त्रिभूषां भ्रान्ति वा प्रदधतो धारयन्तः । उत्प्रेक्ष्यते - तलमधोवर्ती भूमिभागः भूमीप्रदेश एव विवक्षया न तु भूमध्यगो विभागः तथा उपरिशिखरोच्चचूलिका मध्ये स्तम्भविलासे एतावता मध्ये भागद्वयं तानि भजन्ति इति तलोपरि विचालभाञ्जि तादृशानि वनानि अधोभूमौ भनसालवनं शिखर चूलिकायां पाण्डुकवनं विचालभागद्वये तु नन्दनं सौमनसं चैत्याक्यानि चत्वारि काननानि बिभ्रतीति भृतः तादृशाः स्वर्नगा मेरुपर्वता इव । 'रत्नसानुः सुमेरुः स्वःस्वfर्गकाञ्चनतो गिरिः' इति हैम्याम् ॥ શ્લેાકા કૌતુકી શિલ્પીઓએ ઉપરના મધ્યભાગમાં ઇન્દ્રનીલમણિના બનાવેલા, દેવાને પણ વિભ્રમ પેદા કરનારા જિનમંદિરોના સુવણુ મય તા, શાભાને ધારણ કરે છે. તે સ્ત'ભા જાણે સ્તંભની નીચેના ભાગમાં ભદ્રશાલવન, તેના ઉપર શિખરની ચૂલિકા, તેના ઉપર પાંડુકવન અને વચલા બે ભાગમાં નદન અને સૌમનસવનને ધારણ કરતા મેરૂપતા ન હોય ! તેવા શાલે છે. ૫૮૫૫ हरिर्य इह सेवस्तव जिनेन्द्र सोऽस्मद्विषन्विधापय मिथस्ततस्त्वदमुना समं सौहृदम् ॥ इतीव गदितुं वृषध्वजजिनालयस्तम्भकोपधेरखिलभूभृतः प्रभुमुपेत्य शीलन्त्यमी ॥ ८६ ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy