________________
हीरसौभाग्यम्
[ सर्ग १६ श्लो० ८३
जिनेन्द्र गृहस्य प्रासादस्य मण्डपे जनाश्रये लसन्ति परस्परं श्लिष्यन्ति क्रीडन्ति वा शोभमानानि वा । 'लस श्लेषणक्रीडनयोः' अयं धातुः शोभार्थेऽपि दृश्यते । तथा अन ल्पानि बहूनि विविधजातीयानि वा शिल्पानि चित्रविज्ञानानि । त्रिष्वपि कर्मधारयः । लसदनल्पशिल्पानि कृता लसदनल्पशिल्पीकृताः तादृशाः सुरा देवाः, असुरा दानवाः, धरास्पृशो मनुष्यास्तेषां समुदाया गणा मुदं प्रमोद ददन्ते यच्छन्ति । आनन्दयतीत्यर्थः । 'दद दाने' आत्मनेपदी । अत्र बहुवचनम् । उत्प्रेक्ष्यते - अमृत मुक्तिस्तदेवाह्वयो नाम यस्याः । 'अथाह्वयोऽभिधा गोत्रं संज्ञानामधेयाः' इति हैम्याम् । तादृर्शी पतिवरां स्वेच्छया स्वाभिलषितयोग्यवरस्य वरयित्रीं स्वयंवरां कन्यकां कुमारिकाम् । कन्यैव पतिं वृणोति नान्येति रीतिनीतिधर्माः । इत्याशयाद्वरीतुं परिणेतुम् । अत्र तु मुंः कनीत्वं कविसमयानुसारेणैव । केवलं स्वयंवरणमण्डपे सम समकालमेकसमय एव देवनत्र नवजाः किमुपजग्मिवांसः समागता इव ॥
શ્લેાકા
જિનમ`દિરના મ`ડપમાં સુર, અસુર અને મનુષ્યેાનાં મનમોહક ચિત્રો દરેકને આનંદ આપે છે. તે જાણે ત્રણે જગતના જીવે મુક્તિરૂપી સ્વયંવરા કન્યાને પરણવા માટે એકીસાથે સ્વયંવર મંડપમાં આવ્યા ન હોય ! ! ૮૨ ૫
७२६
भवच्चरणसेवनैरधिगता द्युलोकेन्दिरा
विनैव नरजन्मना दिश शिवश्रियं श्रीप्रभो । उपेत्य जिनमन्दिरान्तरमितीव विज्ञीप्सया भजन्ति सुरसुभ्रवः प्रभुमनन्यचित्रोषधेः ॥ ८३ ॥
जिनमन्दिरान्तः श्रीऋषभचैत्यमध्ये उपेत्य अर्थात्स्वर्गलोकादागत्य अनन्यानामसा - धारणानां चित्राणामुपधेश लेख्यानां छलात्सुरसुभ्रुवः अप्सरसः । 'स्वः स्वर्गिवध्वोऽप्सरसः ' इति हैम्याम् । प्रभु भगवन्तं भजन्ति सेवन्ते । उत्प्रेक्ष्यते - इत्यमुना प्रकारेण किं विज्ञी -
या विज्ञप्तिं कर्तुमिच्छयेव । इति किम् । हे श्रिया चतुस्त्रिंशदुदयलक्ष्म्या त्रैलोक्याधिपत्यलक्ष्म्या वा लक्षितविभो स्वामिन् परमेष्ठिन, भवश्चरणसेवनैः श्रीमत्पदपरिचरगैरस्माभिर्द्युलोकेन्दिरां स्वर्ग लोकलक्ष्मीमधिगताः प्राप्ताः । अथ नरजन्म विना मनुष्यातारं विनैव नोsस्माकं पुराङ्गनानां शिवश्रियं मोक्षलक्ष्मीं सिद्धिसंपति दिश प्रदेहि ||