________________
सर्ग १६ श्लो० ७८-७९ ]
हीरसौभाग्यम्
७२३
કાળમાં મહામહિમાવંત અને મોક્ષ પ્રાપ્ત કરાવી આપનાર એ આ એક જ શત્રુંજય પર્વત છે કે જે સર્વ પ્રાણીઓએ સેવવા યોગ્ય છે.” છે ૭૫ છે ૭૬ ૭૭ છે
स्वमौज्झ्य भुवि निर्वृतौ गतमवेत्य सिंहध्वजं
यियासुरन तं स्वयं धनिशसेविता स्नेहतः। इतः प्रचलितोऽम्बरोपगतचैत्यश्रुङ्गाध्वना
ध्वजाङ्कगतकेसरी कलयति स्म लक्ष्मीमिह ॥ ७८ ॥
. इह मूलप्रासादस्य शिखरे ध्वजस्य पताकाया अङ्के उत्सङ्गे गतः प्राप्तः स्थितो वा केसरी मृगेन्द्रः लक्ष्मी शोभां कलयति भगवच्चरणे ध्वजे वा कृत्यैव न तु मूर्तिमान । अत. एवोत्प्रेक्षणम् । उत्प्रेक्ष्यते-व्यनिशमहोरात्र सेवन्ते इत्येवंशीलः सेवी तस्य भावः सेविता तया सेवनशीलत्वेन यः स्नेहः प्रेमातिरेकः तेन कारणेन स्वयमात्मनापि तं भगवन्तमनु पश्चात्पृष्ठे वा यियासुर्गन्तुमिच्छुः किमु । इतो भूमिसकाशादम्बरमाकाशमुपगतं प्राप्त यच्चैत्यस्य प्रासादस्य श्रुङ्ग शिखरं तस्याध्वना मार्गेण कृत्वा प्रचलितः किमु प्रस्थित इव । इति गर्भितोत्प्रेक्षा । किं कृत्वा । स्वमात्मानमाल्लाञ्छनपश्चानन भुवि पृथिव्यामि वौज्झ्य मुक्त्वा च पुनः स्वयमात्मना निर्वृतावनन्तसुखस्थाने मोक्षे गत यात्वा च निरवधिसतिष्ठमान सिंहध्वजं श्रीमन्महावीरदेवमवेत्य ज्ञात्वा ॥ इति पताकापञ्चाननः ॥
શ્લોકાઈ
જિનપ્રાસાદના શિખર ઉપર રહેલી ધજાના મધ્ય ભાગમાં રહેલે સિંહ શોભે છે. તે જાણે, પિતાને ત્યાગ કરીને મુક્તિમાં ગયેલા મહાવીર પરમાત્માને જાણીને લાંછનના હાને નિરંતર સેવા કરતે તે સિંહ નેહથી ભગવંતની પાછળ જવાને ઈચ્છતો જિનપ્રાસાદના શિખરમાર્ગે જાણે પ્રયાણ કરતે ન હોય! ૭૮ છે
मृगाङ्ककरसंगमक्षरदमन्दपाथःप्लवै
यदुच्चशिखरात्तमीमणिमणीगणैर्निर्मितात् । रजोभिरवगुण्ठितं प्रबलगन्धवाहव्रजै
वपुः पवितुमात्मनो जिनगृहं निशि नाति किम् ।। ७९॥