________________
७२२
हीरसौभाग्यम्
[सर्ग १६ श्लो० ७५-७६-७७
प्रचलं यत्केतनं ध्वजस्तत्र स्फुरत् अकुण्ठः अमन्दो दुर्धर्षा वा कण्ठीरवः केसरी स कर्ता । निजस्यात्मनः अन्तिके समीपे आवासं निरन्तरवसतिं भजन्तीति तादृश्यो रणज्झणिति शब्दं कुर्वाणाः किङ्किण्यो लघुघुघुरिकास्तासां क्वणस्य शब्दस्य मिषेण कपटेन त्रिजगद. ङ्गिनां सुरासुरनराणां पुरः किम् । उत्प्रेक्ष्यते-इत्यमुना प्रकारेण विचिन्त्य विचार्य विमृश्य विचारं कृत्वेव भाषते ब्रवीति । इति किम् । आकृतिराकार एव वपुः शरीर यस्य तादृशः सन् अहं यस्य प्रभोर्महावीरस्य भगवतः पदं चरणं सदा सर्वकालं परिचरामि सेवे, तेन मत्स्वामिना मम प्रभुणा वीरेण स्वयमात्मनैवेद पूर्वकाव्यप्रतिपादित श्रीशचुंजयमाहात्म्यं जगति विश्वे । जगजनानामग्रे इत्यर्थः । प्रकाशित प्रकटतया कथितम्। यस्मादिति गम्यं तस्मात्कारणादहं तच्चरणपरिचारकःअस्य मवसतिभूमेस्तीर्थस्य लोको. त्तरपुण्यस्थानस्य प्रभावं महिमानं पटु स्पष्टं यथा स्यात्तथा प्रकटयामि प्रकटीकरोमि किंवत्। गणिवत् । यथा गणंधरो भगवतार्थात्प्रतिपादितं सूत्रं पटु सहेतु युक्तिकं विस्तारयति, तथा श्रीमन्महावीराहत्प्रकाशिनमहमपि विमलाचलस्याद्वैतमाहात्म्यं प्रकाशयामीत्यर्थः। इद किम् । यद्यस्मात्कारणात् एतस्मिन्कलिकाले जगति विश्वेऽखिले । भरतक्षेत्रे इत्यर्थः । कश्चित्कोऽपि मुनिप्रमुखः उपलब्धिमान मतिश्रुतावधिमनःपर्यवकेवलज्ञानयुक्तः पूर्ववच्चतुर्थारक इव न दृश्यते न चक्षुषा लक्ष्यते न च श्रवसा श्रूयते च । पुनर्जनानां भारतभूमिजन्मनां लोकानां संशयानां मानसिकानां शास्त्रसंबन्धिनां वा सदेहानां छेदकृन्निवारकः कोऽपि कश्चिदपि पूर्ववत्प्रदेशिराजस्य केशिगणधर इव नैव विभाव्यते नाकर्ण्यते च । च पुनरधुना कोऽपि कश्चनापि शिवंगमी चरमशरीरत्वेन केवलज्ञानमासाद्य मोक्ष गमिष्यतीति। 'यथा विदूरादिरदूरतांगमी' इति नैषधे । तादृशोऽपि लोचनाभ्यां न विलोक्यते नापि च श्रुतेर्गाचरीक्रियते । तत्तस्मात्करणात् सांप्रतं पञ्चमे दुःखमानाम्नि अरके लोकोत्तया कलिकाले च महिमसपदां मानातीतमाहात्म्यसंपत्तीनां मही स्थानमाधारः। तथा महोदयस्य राज्याद्वैताभ्युदयस्य मोक्षस्य च विधायकः । एकोऽद्वितीय एवायं न चापरः । अयं प्रत्यक्षलक्ष्यस्तथा निश्चयेनाचलः श्रीशत्रुजयशैलः निषेव्यतां सेवनीयत्वमर्हति योग्यो भवति । सर्वेषामपि भव्यानामयमेव सेवाया उचितोऽस्तीत्यर्थः ॥ त्रिभिषिशेषकम् ॥
શ્લેકાર્થ
અષભવિહારના ગગનચુંબી શિખર ઉપર પવનથી ચંચળ બનેલી દવજામાં રહેલે દઈર્ષ કેશરીસિંહ, પિતાની સમીપે રહેલી રણઝણ અવાજ કરતી ઘૂઘરીઓના ન્હાને ત્રણે જગતને જાણે આ પ્રમાણે કહેતો ન હોય કે “હે પ્રાણીઓ, લાંછનરૂપ શરીરવાળે હું સિંહ પ્રભુ મહાવીરના ચરણની સેવા કરું છું, તે મારા ભગવાન મહાવીરે જગતના છેવની આગળ જે કહેલું, જેમ ભગવંતે પ્રતિપાદન કરેલા અર્થને ગણધર સૂત્રથી કહે તેમ હું કહું છું કે “આ ભરતક્ષેત્રમાં મનુષ્યના સંશય છેદનારા એવા કેઈ વિશિષ્ટ જ્ઞાની પુરુષ નથી તેમજ ચોથા આરાની જેમ કે ઈ મેક્ષગામી જીવ નથી, તે માટે દુષમપંચમ