________________
सर्ग १६ श्लो० ७२]
हीरसौभाग्यम्
चैत्यशिखरे दण्डो भातीति संबन्धः । उत्प्रेक्ष्यते-अमुना ऋषभकूटकमलामौलिचू. डामणिना जिनेशितुर्वृषभदेवस्वामिनः सद्मना मन्दिरेण ऋषभचैत्येन शिरःशिखरे उपरितनश्रङ्क संस्फुरत् वज्ररत्न निर्मितत्वात् दीप्यमानं वा निबिडं दृढमभेद्यं दण्डरत्नं दधे किमु धृतमिव । किंभूतम् । सपत्नानां वैरिणां निवहस्य गणस्य यः स्मयः अहंकारः स एवा. म्बुनिधिः समुद्रः तस्य माथे मथने मन्थाचलं झुब्धपर्वतं मन्दरगिरिम् । 'पाथोधिमाथस. मयोत्थितसिन्धुपुत्रीपत्पङ्कजार्पणम्' इति, तथा 'मन्थानगः स भुजगप्रभुवेष्टिधृष्टिः' इति द्वयमपि नैषधे । किंभूतेन सद्मना । विजेतुमनसा पराभवितुकामेन । अर्थात्स्वस्पर्धित. भुवनत्रये नाकिनागगेहमहीत्रिलये स्वेषामात्मीयानां विभवानां शोभातिशयानामङ्ककाराणां जैत्रप्रतिमल्लानां व्रजान समूहान्विभाव्य विलोक्य विज्ञाय वा । 'दूरं गौरगणैरहंकृतिभृतां जैशङ्ककारे चरत्' इति नैषधे ॥
શ્લેકાર્થ
ચૈત્યના શિખર ઉપર રહેલો દંડ શોભે છે. તે જાણે ત્રણે જગતના અહંકારી મëને પરાભવ કરવા ઈચ્છતા એવા ઋષભવિહારે પોતાના શિખર ઉપર શત્રુસમૂહના અહંકારરૂપી સમુદ્રનું મંથન કરવા માટે મેરૂસમાન દંડ ધારણ કર્યો ન હોય! ૭૧
निभाल्य नलिनीधवं स्वविभवेन संस्पर्धितां
दधानमधिकं क्रुधाधुषितवम॑णार्चिमिषात् । जिनाधिपतिवेश्मना सुरपथे स्वदण्डस्फुर
त्करः परिबुभूषया द्विष इवैष ऊर्वीकृतः ॥ ७२ ॥
निभाल्य नलिनीध दण्डो दीप्यते । जिनाधिपतेर्वृषभस्वामिनो वेश्मना मन्दिरेण विहारेण एष सर्वजनप्रत्यक्षः स्वस्यात्मनो यो दण्डः स एव स्फुरन् प्रकटीभवन्करो हस्तः द्विषो भास्वल्लक्षणवैरिणः परिवुभूषया चपेटामुष्टिप्रहारादिभिः पराभवितुमिच्छया सुरपथे आकाशे ऊ/कृत उन्नतो विहित इव । किंभूतेन वेश्मना । अचिमिषात्सर्वतः स्फुरत्कान्तिकपटात् अधिकं यथा स्यात्तथा क्रुधा कोपेन कृत्वा उद्धषितमुत्कण्टकितं प्रोञ्चैभंतरोमराजि वर्म शरीरं यस्य । किं कृत्वा । स्वेनात्मीयेन विभवेन शोभासमुदायेन सार्घ संस्पधितां सम्यक् मनसा वचसा कायेन च स्पर्धनशीलतां दधानं बिभ्राणं नलिनीधवम । 'नलिनीप्रेमनिबद्धो मानसगमनाय सत्वरो हंसः । न च गच्छति न च तिष्ठति उभयरसव्याकुलीभूतः ॥' भास्करं निभाल्य वा ॥ इति चैत्यशृङ्गदण्डः ॥