________________
सर्ग १६ श्लो० ६९]
हीरसौभाग्यम्
७१७
भवन्तीति प्रत्यक्षमपि लक्ष्यते । तादृशैः कुमारशिखरैल घुशृङ्गः बभे शुशुभे । कुमारशब्दोऽत्र केवल लघुत्वमेव वक्ति । यथा नैषधे-'रचयति रुचिः शोणीमेतां कुमारितग रवेः । अत्र तु कुमारितरा रवेः । कुमारितरा प्रथमनिर्गतत्वेन लघ्वी रुचिः कान्तिः । तथात्रापि महच्छिखरापेक्षया लघूनि अत एव कुमाराणि श्रुङ्गाणि इति । उत्प्रेक्ष्यते-महीभृतां भरैगिरीणां गणैः राज्ञां चक्रैश्च भुवि पृथिव्यां भूधराणां शैलानां भूपतीनां च मध्ये अभिनव नवीन प्रादुर्भूत' सार्वभौम चक्रवर्तिनममु नग शत्रुजयाचलमवेत्य विज्ञाय तं सेवितुमु. पासितु प्रेषितैः स्वबालशिखरैः किमु निजनिजडिम्भश्रुङ्गैरिव । राजानो हि चतुर्दशस्व. प्तसूचितनवीनात्पन्नचक्रवर्तिन विज्ञाय स्वस्वकुमारनन्दनांस्तत्सेवार्थ प्रेषयन्तीति स्थितिः।
कल्पसूत्रव्याख्याने महावीरचरित्रे-गजवृषभपञ्चननादिमचतुर्दशस्वप्तसूचितमहावीरदेवजन्म ज्ञात्वा श्रेणिकचण्डप्रद्योतादयः कुमाराः सेवाथै स्वपितृभिः प्रहिताः। इति किम् । नग महिमभिस्तुगताभिः । यदुक्तम्-'सर्वेषामपि शैलानामुन्नतो विमलाचलः । यदारोहण लोकाग्रं प्राप्यते बालकैरपि ॥' इति वचनात्तुङ्गिमा । माहात्म्यमस्य तु सर्वेभ्योऽभ्यधिक प्रसिद्धमेवास्ति । जगत्सु विश्वेषु ये गिरयः पर्वताः पर्वतप्रायाः उच्चस्तरत्वेनाभिमानितया वा तुङ्गा । यथा-'त मानतुङ्गमवशात्समुपैति लक्ष्मीः' इति भक्तामरस्तवे । तेषां विजित्वरं जयनशीलम् ॥ इति शिखरम् ॥
શ્લોકાઈ
ગગનચુંબી શિખરને આશ્રયીને રહેલાં નાનાં નાનાં શિખરે શેભે છે. તે જાણે જગતના પર્વતને વિજય કરનારા મહામહિમાવંત નૂતન ચકવતી એવા વિમલાચલને જાણીને પર્વતના સમૂહે પિતાનાં બાલશિખરોને ગિરિચકવત વિમલાચલની સેવા કરવા માટે જાણે મોકલ્યા ન હોય! છે ૬૮
धनादि जगदीहितं प्रभवितास्मि दातुं पुनः
शिवादिकमलाकरं प्रणय मां प्रभो स्वामिव । इतीव जगदीश्वरं गदितुमुत्सुकीभावुकः
समेत्य सुमनोनिपो भजति चैत्यशृङ्गे स्थितः ॥ ६९ ॥
सुमनोनिपः कामकुम्भः समेत्य स्वर्गादागत्य चैत्यशृङ्गे प्रासादशिखरे स्थितस्तिष्ठन सन् जगदीश्वरं त्रिभुवननायकं श्रीऋषभदेवं भजति उपास्ते । उत्प्रेक्ष्यते-इत्यमुना प्रका. रेण गदितुं कथयितुमुत्सुकीभावुकः उत्कण्ठीभवनशीलः सन्निव । इति किम् । हे प्रभो त्रैलोक्यनाथ, अहं धनादि द्रव्यभोज्यवस्वाभरणादिकं जगदी हितं जनमन कामितं दातुं प्रभवितास्मि समर्था भवामि । पुनस्त्वं मां शिवादिकमलाकरं स्वर्गापवर्गप्रमुखलक्ष्मीकारकं प्रणय कुरु । कमिव । त्वामिव । यथा त्वां स्वःसिद्धिकमलाकारिणं निगदन्ति ।