SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ PDATED: ७१६ होरसौभाग्यम् [ सर्ग १६ श्लो० ६७-६८ दरेण धरवैरिणः किमु भजन्ति यं भूधरा यदल्पशिखरच्छलाल्पिततनूलतालम्बिनः ॥ ६७ ॥ यस्य प्रासादस्य अल्पानि मूलशिखरापेक्षया लघूनि यानि शिखराणि श्रङ्गाणि तेषां छलेन कपटेन अल्पिता अल्पाः कुर्वन्तीति अल्पयन्ति अल्प्यन्ते स्मेत्यल्पिताः अल्पाः कृताः। 'मृषा न चक्रेडल्पितकल्पपादपः प्रणीय दारिद्यदरिद्रतां नृपः' इति नैषधे । यास्तनूलताः शरीरयष्टीरालम्बन्ते आश्रयन्ते इत्येषशीला भूधराः पर्वताः कदम्बाचल शत्रुजयशैलम् । 'लोहिव्वउ तालज्झउ कयंवुत्ति' इति शत्रुजयकल्पे कदम्ब इत्यभिधानम्, तथा एकचत्वारिंशदभिधानेष्वपि कदम्बाभिधास्तीति । यं कदम्बाचलं भजन्ते । उत्प्रेक्ष्यते-धराणां गिरीणां वैरिणः शत्रोरिन्द्रस्य दरेण किमु भयेनेव । किं कृत्वा । वसुधातले भूमण्डले विधापि द्वाभ्यां प्रकाराभ्याम् ऐहिकामुष्मिकमेदाव जगतां भुवनानामीहितमभीप्सित प्रददत प्रकर्षण सर्वोत्कृष्टतया विश्राणयन्तम् । अर्थात्स्वसेवाकारिण शत्रुजयाद्रिमवेत्य ज्ञात्वा । तथा अखिलानां समस्तानां महाभयानां रोगगजमृगेन्द्रदवानलविषधरसंयामसमद्रवैरशत्रुप्रभृतीनां प्रबलभीतीनामालम्भो व्यापादनमस्यास्तीति अर्थात्स्वाश्रितानां तादृशं षयमवेत्य शास्त्रवचसा लोकपरंपरया वा ज्ञात्वा । શ્લેકાર્થ મેરૂઆદિ પર્વતે પિતપિતાનાં શરીર સંકેચીને જાણે જિનપ્રાસાદનાં શિખરૂપે રહ્યા ન હોય! જગતને ઈહલૌકિક અને પારલૌકિક ઉભય પ્રકારની સિદ્ધિને આપનાર તેમજ ઈહલૌકિક અને પારલૌકિક સર્વે ભયને દૂર કરનાર એવા કદંબગિરિને (શવું. જયનાં એક્તાલીશ નામો પૈકી કદંબગિરિ પણ એક નામ છે, જાણીને પિતાના શત્રુ ઈન્દ્રના ભયથી બધાયે પર્વતે જાણે વિમલગિરિની ઉપાસના કરવા માટે આવેલા ન डाय! ॥ १७ ॥ जगगिरिविजित्वरं महिमभिर्महीभृद्भरै रवेत्य भुवि भूधराभिनवसार्वभौमं नगम् । स्वबालशिखरैरमुं किमु न सेवितु प्रेषितैः कुमारशिखरैर्बभे यदतितुङ्गश्रुङ्गाश्रयैः ॥ ६८ ।। यदतितुङ्गे यस्य प्रासादस्य अतिशयेन गगनालिङ्गित्वेन अत्युच्चैस्तरे महति श्रृने मूल शिवरे आश्रयो निधासो येषाम् । मूलश्रुङ्गे लगन्ति अनेकानि अन्यानि अल्पानि शिखराणि
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy