________________
७१४
हीरसौभाग्यम्
[सर्ग १६ श्लो० ६५-६६
वने वसतिरेकिका जनुषि नः प्रसूतिः परि
च्छदो न कदनं सदा पुनरनेकपानां हहा । जहीत्यसुखमाशु नः किमिति भाषितुं नाभिनं
भजन्ति गृहकंधरागतमृगेश्वराः श्रीजिनम् ॥६५॥
गृहकंधरायामाजिनसदनशिखरोपत्यकायां गताः शिल्पेन स्थिताः मृगेश्वराः केसरिणः नाभेर्नानो नृपाजायते स्म इति नाभिजः अथ च नाभेस्तुन्दकूपिकाया जायते स्मेति नारायणनाभिपुण्डरीकोत्यन्नं ब्रह्माणं श्रिया अतिशयलक्षम्या युक्तो जिनस्तीर्थकृत्तं तथा श्रिया समुद्रनन्दिन्या युतो जिनो नारायणस्तं भजन्ते सेवन्ते । इत्यमुना प्रकारेण नोऽस्माकमसुख दुःखं जहि घातय । इति किम् । हे जगन्नाथ, नोऽस्माकं वसतिर्वासो वने न च नगरादौ । पुनर्जनुषि अखिलेऽप्यवतारे एकैव प्रसूतिः संतानमेकमेव नान्यत् । 'एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्' इति वचनात् । पुनः परिच्छदः परिवारोऽपि न स्ववपुःसहायत्वमेव । पुनह हा इति खेदे । सदा सर्वकालमपि अनेकान्बहून लोकान् पान्ति आजीविकाभिः रक्षयन्ति पालयन्तीत्यनेकपाः । 'बन्धनस्थोऽपि मातङ्गः परेषां मरणक्षमः' इति सूक्तवचनात् । सन्तो हृस्तिनश्च तेषां कदनं व्यापादन मारणम् । 'निर्ग्रन्थन प्रमथन कदनं निबर्हणम्' इति हैम्याम् । घातनाभिधानानि ॥ इति चैत्यक धरामृगेन्द्राः ॥
શ્લેકાર્થ
જિનપ્રાસાદના શિખર ઉપર કતરેલા સિંહો જાણે ભગવંતને આ પ્રમાણે કહેવા માટે આશ્રય કરીને રહ્યા ન હોય કે “વનવાસ, એકાકીપણુ, આખી જિંદગીમાં એક જ સંતાનને જન્મ, અસહાય અને હાથીઓને કદર્થના કરવી, અમારાં આ દુઃખને હે मापन, realथी ६२ ४२। !" ॥ ५ ॥
युगादिजिनमन्दिरे शिखरमम्बराडम्बरं
विडम्बयति चण्डरुकिरणमण्डलं वैभवैः। पुनर्निजसपक्षतामिव समीहमानो जिनं
भजनमरभूधरो भुवनकामितस्वस्तरुम् ॥ ६६ ॥
युगादिजिनः प्रथमतीर्थकरस्तस्य मन्दिरं गृहं प्रासादस्तत्राम्बरे आकाशे आडम्बरः शोभातिशयो यस्य तादृशं शिखरं शृङ्ग वैभवैः सुषमाभिः कृत्वा चण्डरुचः सूर्यस्य किरणमण्डलं ज्योतिःपुञ्ज विडम्बयति धिक्करोति अनुकरोति वा । यदुक्तम्-'विकलयति कलाकुशल हसति शुचिं पण्डितं विडम्बयति । अधरयति धीरपुरुषं क्षणेन मकरध्वजो