________________
सर्ग १६ श्लो० ६४]
हीरसौभाग्यम्
७१३
यस्य मुलप्रासादस्य महान् गगनाङ्गणालिङ्गी मण्डपः स्फुरति शोभते । उत्प्रेक्ष्यतेअनन्यामसाधारणी सर्वा तिशायिनी शिवकन्यकां मुक्तिकुमारिकां कस्मैचनानिर्दिष्टनाग्ने उचिनाय भव्यादिमामग्रोभते योग्याय वराय प्रधानाय परिणयनकामाय पुरुषाय इह सिद्धशैले प्रदातुमिच्छता पाणिं ग्राहयितुं बाञ्छता धर्मनाना भूमीभृता राज्ञा मणीनां रत्नानां चन्द्रकान्तादीनामुपलक्षणाकतनादीनां सुवर्णानां काञ्चनानां चित्राण्यालेख्यानि तेषां श्रिया अथ वा चित्रकारिण्या आश्चर्यविधायिन्या शोभयाश्चितः कलितः वरणमण्डपः स्वय' स्वेच्छया, न तु पित्रादिपारतन्त्र्यात, वरणमर्थात्स्वामीप्सितवरयितुः कण्ठपीठे वरमालाक्षेपणेन स्वीकरण यत्र तादृशो विधापितः किमु शिल्पिना निर्मा पित इव ॥
લોકાથી મૂલપ્રાસાદમાં ગગનચુંબી મંડપ શોભે છે, તે જાણે સર્વોત્કૃષ્ટ મુક્તિરૂપે કન્યાને કેઈ ગ્ય વરની સાથે પાણિગ્રહણ કરાવવાને ઈચ્છતા ધર્મરાજાએ મણિ અને સુવર્ણની આશ્ચર્યકારી રચનાવાળો સ્વયંવર મંડપ કરાવ્યું ન હોય! છે ૬૩ .
अवेत्य कलितौकसं नभसि सिंहिकानन्दनं
वनान्मिलितुमागताः किमिह गोत्रहार्दादमी । यदाप्तगृहकंधरास्फुरदमानपश्चाननाः
परां श्रियमशिश्रियन्नमृतकान्तिकान्तद्विषः ॥६४॥
यस्य विमलाचलशिखरिशेखरस्याप्तगृहस्य जैनप्रासादस्य कंधरायां शिखरोपत्यकायां स्फरन्तो दृश्यमानाः शोभमाना वा अमानाः प्रमाणातीताः अतिबहवो ये पञ्चानना मगेन्द्राः। 'यदनेककसौधकंधराहरिभिः कुक्षिगतीकृता इव' इति नैषधेऽपि । परां प्रकृष्टां श्रियं शोभामशिश्रियन् लभन्ते स्म । किंभूताः। अमृतकान्तिकान्ताश्चन्द्रमणयस्तेषां द्विषः श्वेतमविभ्र. मवैरिणः । उत्प्रेक्ष्यते-नभसि आकाशे कलितोकसं निर्भितनिकेतनम् । गगनस्थायिनमित्यर्थः । सिंहिकानन्दनं स्वर्भाणु केसरिणं वा अवेत्य ज्ञात्वा गोत्रस्य ज्ञातेर्हात् । स्नेहला हि स्वजनाः स्वजनं प्रस्तावे मिलितुमायान्त्येवेति प्रथमव्यवहारतः वनात्स्वकानना. सकाशात् अमी प्रत्यक्षलक्ष्याः पारीन्द्राः मिलितु मिलनार्थमिह प्रासादोपरितनप्रदेशे आगताः समेता इव ॥
લેકાર્થ
અનેક સિંહથી સુશોભિત એવી શિખર ઉપરની ભૂમિ અતિશય શોભે ધારણ કરે છે, તે જાણે આકાશમાં રહેલા સિંહિકાનંદન કેશરીસિંહને (એક પક્ષે રાહ) જાણીને નાતિનેહથી પ્રેરાઈને વનમાંથી મળવા માટે આવેલા સગોત્રીય સિંહો ન હોય! છે ૬૪
हि० सौ०-९०