________________
सर्ग १६ श्लो० ६०-६१ ]
हीरसौभाग्यम्
जिनेन्द्रसदनाग्रतोऽद्युतदनल्पशिल्पोल्लस____ सुवर्णमणितोरणं शिवसुधाब्धिजाकार्मणम् । निबद्धमपवर्गपूः प्रथमसाधनप्रक्रमे
जिनावनिबिडौजसः किमिह मुक्तिगेहे गिरौ ॥६०॥
जिनेन्द्रस्य ऋषभस्वामिनः सदनस्य प्रासादस्याग्रतः पुरस्तात् द्वाराग्रे अनल्पैहुभिर नेकजातीयैः शिल्पैविज्ञानै रचनाविशेषैरुल्लसद्दीप्यमान सुवर्णानां मणीनां सुवर्णमणिभिर्वा घटित स्वर्णमाणिक्य मय वा तोरणमद्युतत द्योतते स्म दिदीपे । किंभूतं तोरणम् । शिवं मक्तिरेव सुधाब्धिजा क्षीरसमुद्रपुत्री लक्ष्मीस्तस्याः कार्मण संवननम् । वशिक्रिया करणमित्यर्थः । उत्प्रेक्ष्यते- इहास्मिन्मुक्तिगेहे गिरौ शत्रुजयशैले 'विमलगिरिमुत्तिनिलउ' इति शत्रुजयकल्पे । तथा 'मुक्तिगेहः श्रियः पदम्' इति शत्रुजयमाहात्म्ये जिनावनिबिडौजसः श्रीजिनगजस्य अपवर्गों मोक्षः स एव पूर्नगरी तस्याः प्रथममादित एव साधनं स्वायत्तीकरणं तस्य प्रक्रमे प्रारम्भे निबद्धं रचितमिव । राज्ञा हि नवीननगरग्रहणे पूर्व तत्र तोरणं बध्यते इति रीतिः ॥
કલેકાર્થ
મૂલપ્રાસાદ ઝષભવિહારની આગળ અનેક પ્રકારની રચનાઓથી યુક્ત સુવર્ણમય અને રત્નમય તારણ શેભે છે. તે તારણ જાણે મુક્તિરૂપી લક્ષ્મીનું વશીકરણ ન હોય! અથવા “મુક્તિનિલય” એવા વિમલાચળ ઉપર જિનેશ્વર ભગવંતરૂપી રાજાને મોક્ષરૂપી નગરીને સ્વાધીન કરવાના પ્રારંભે બાંધેલું જાણે મંગલતરણ ન હોય! છે ૬૦
निजस्य बहलीभवत्यपि महोत्सवे द्वारि मां
जना असहजा इव प्रतिपदं निवनन्त्यमी । जहीत मम दुःखितां किमिति वक्तुकामं प्रभोः
पुरः स्थितमुपेत्य यज्जिननिकेतने तोरणम् ॥६१॥
यद्यस्मिन् जिनस्याहतो निकेतने गृहे मूलविहारे उपेत्य कुतश्चिदागत्य तोरण स्थित तिष्ठति स्म । उत्प्रेक्ष्यते-प्रभोः ऋषभदेवस्य पुर इत्यमुना प्रकारेण वनकाम कथयितमीहमानं किं स्थितमिव । इति किम् । हे प्रभो, निजस्यात्मनः निजस्यात्मीयस्य वा कस्यचिन्महोत्सवे अतिशायिनि महे बहलीभवति सान्द्र निबिडे निरन्तरं जायमाने सति असहजा वैरिण इवामी भूमीलोकवर्तिनो लोका मां तोरण प्रतिपदं स्थाने स्थाने गद्वारि बहिस्तान्मार्ग वा निबध्नन्ति इत्यमुना प्रकारेण विद्यमानां मम दुःखमस्यास्तीति