SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ७१० हीरसौभाग्यम् [सर्ग १६ श्लो० ५८-५९ यस्य श्रोशत्रुजयसंबन्धिनः आप्तसदनस्य मूलजिनगृहस्याग्रतः पुरस्ताद्विविधानां नानाप्रकाराणां रत्नानां मणीनां सोपानकैः । स्वार्थ कप्रत्ययः । आरोहणैर्वा बभे शुशुभे । उत्प्रे क्ष्यते-निषेवितुमर्थात् युगादिजिनमुपासितुं प्रभोः ऋषभदेवस्य पुरोऽग्रे उपागताभिः संप्राप्ताभिः सिन्धुभिर्नदीभिरिव । किं कर्तु कामाभिः । इत्यमुना प्रकारेण स्त्रकीयामा. त्मीयां वचनीयतामपवाद जन निन्दां जिघांसुभिर्हन्तुमिच्छु भिरिव । इति किम् । यत् इमाः सिन्धवः अनिशं निरन्तर निम्नगा नीचगामिन्यः । बत इति खेदे । पुनर्जडाशया मन्दमनस्काः जडिमाञ्चितचित्ताः डलयोरेक्याजलभृताः । तथा अहरहः प्रतिवासरं वक्रतां कुटिलभाव वहन्ति धारयन्ति । तथा पुनरर्थे सप्रतिकूलवृत्तिप्रथाः सह प्रतिकूलवृत्तेः प्रति लोमवर्तनस्य प्रथया विस्तारेण वर्तन्ते याः । तत्त्वतस्त कल कल प्रति मर्यादामेदिनी प्रवृत्तेः प्रवर्तनस्य पयःप्रवहणस्य प्रथाभिः सह वर्तन्ते । हादिसयोगे क्वचिल्लघुरेव गण्यते । यथा-'बहुलभ्रामर मेचकतामने' इति वृत्तरत्नाकरवृत्तौ काव्यकल्पलतायां च । इति न दोषः । पुनरिमाः श्रितमङ्गीकृतमुत्कृष्ट पलं मांसं यैस्तादृशान्मांसखादयान मधु मद्यमेव व्रत मद्यं विना वयं नान्यत्पिबाम इति नियमो येषां तान् । तत्वतस्तु सेवित कुवलयान भ्रमरान् । पुनः कृतो विहितः कुलानां स्वान्वयानां क्षयो विनाशो यस्तैमत्स्यैराश्रिताः । पुनरिमाः पदे पदे स्थाने स्थाने भुवनानां जगतां भने विनाशे रङ्ग राग श्रयन्ति । तत्त्वतस्तु भुवनानां पानीयानाम् । 'नीरं वारि जल दल कमुदक पानीयमम्भः कुशं तोयं जीवनजीवनीयसलिलार्णा स्यम्बु वाः शंबरम् । क्षीरं पुष्करमेघपुष्पकमला न्यायः पय:पाथसी कीलाल भुवनं वनं घनरसो यादोनिवासोऽमृतम्' ॥ इति हैम्याम् । भङ्गाः कल्लोलाः । 'तरङ्गे भङ्गवीच्युमिः' इत्यपि हैम्याम् । तैरङ्ग श्रयन्ति । पुनरिमा नमन्तो नम्रोभवन्तः पादयोलगन्तः तथा निकटे समीपे वर्तन्ते आजीविकां कुर्वन्तीत्येवं. शीलास्तादृशानामवनिजन्मनामयन्यां भूमावेव जन्मावतारी येषां त्रसानां द्वित्रिचतुःपञ्चे न्द्रियाणां तिरश्चां तथा । खेचरजलचरभृचराणामवन्यामेवोत्पत्तिर्न तु देवगृहादौ, स्थावराणां तूभयत्रापि दृश्यमानत्वात्रसानामुपादानम् । तत्त्वतस्तु अवनिजन्मनां वृक्षाणाम् । घातुका हननशीला इति श्वापद निराकर्तुकामाभिः॥ युग्मम् ॥ इति मूलप्रासादसोपानानि । શ્લોકાર્થ મૂલપ્રાસાદ ઋષભવિહારનાં વિવિધ પ્રકારનાં રત્નોથી બનેલાં પગથિયાં શોભે છે, તે જાણે જગતપ્રસિદ્ધ પિતાના અપવાદોને દૂર કરવાની ઇચ્છાથી ભગવંતની ઉપાસના માટે આવેલી અનેક નદીઓ ન હોય! નિરંતર નીચ ગામિની, જલને આશ્રય કરનારી હોવાથી મૂર્ખ, કુટિલતાને વહન કરનારી, સ્થાને સ્થાને કિનારાને વિસ્તારતી, માંસભક્ષિણી અર્થાત ઉત્પલ (કમલ) રસના લેપી ભ્રમરોને આશ્રય આપનારી, ફૂલને ક્ષય કરનારી, મસ્યાને આશ્રય, મોટા મોટા તરંગે વડે જગતની રચનાને ભંગ કરનારી તેમજ સમીપે નમ્ર બની રહેલાં વૃક્ષોને ઘાત કરનારી, આવા આવા પિતાના અપવાદને દૂર કરવાની ઈચ્છાથી આવેલી જાણે નદીએ ન હોય તેવાં પગથિયાં શેભે છે. ૫૮ પા
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy