________________
सर्ग १४ श्लो० २८-३० ]
हीरसौभाग्यम्
४७५
कस्मिन्निव । आत्मदर्श इव । यथा निर्मलदर्पणमण्डले क्वापि भूधनधनिगृहचित्रशालिका दिभित्त्यादौ चित्रीकृतानि त्रीणि जगन्ति प्रतिफलन्ति । च पुनहे भूवल्लभ, यो देवो दीनान्तराय-लाभान्तराय-वीर्यान्तराय-भोगान्तराय- उपभोगान्तराय-हास्यरतिअरति- भीति - जुगुप्सा- शोक-काम-मिथ्यात्व-अज्ञान-निद्रा-अविरति-राग-द्वेषनामानोऽष्टादशसंख्याका दोषा अपगुणास्त एव विद्विषो महावैरिणो जिगाय पराभूतवान् । क इव । जयीव । यथा परराजजित्वरो राजा नवसंख्याकानां द्वयं द्वन्द्वं नवद्वयं नवद्वयं च ते द्वीपाश्च नवद्वयद्वीपाः इति नैषधवृत्तिनरहरिकृतसमासः । तेषामष्टादशद्वीपानां भुवो भूमीप्रदेशान् जयति स्ववशीकुरुते । 'नवद्वयद्वीपपृथग्जयश्रियाम' इति नैषधे । तथा 'अष्टादशद्वीपनिखातयूपः' इति रघौ। च पुनर्यः परमेष्ठी नितम्बिनीं कान्ता. मङ्कपालीमालिङ्गनं न नयते न प्रापयति । 'आलिङ्गनं परिष्वङ्गः संश्लेष उपगृहनम् । अङ्कपाली परीरम्भः' इति हैम्याम् । क इव । प्रभुरिव । यथा अम्भसा पानीयानां स्वामी समुद्रस्तरङ्गिणीवेणि नदीप्रवाहं नदीपूरं नदीनां स्वपत्नीत्वेनाश्लेषणं नयते लम्भयति । पुनर्यस्य परमात्मनो हृदा ह्रदयेन क्वचित्कुत्रापि समये प्रदेशे वा रहसि वा प्रकटं वा नर्म क्रीडा तदेव नर्मदा मेकलाचलजाता नदी नर्भदानाम्नी तस्या हृदो द्रहस्तस्यावगाहे विलोडने जलकेलिविघौ वा न द्विरदायितं गजवदाचरितम् । प्रायो विन्ध्यपर्वतोत्पन्ना हस्निनो विन्ध्योपकण्ठप्रवहन्नमेदायामनिशं स्वैरं रमन्ते । यदुक्तम्-'कोप वा वारणपते किं विस्मितेनास्यते प्रायो भाजनमस्य संप्रति भवांस्तत्पीयतामादरात । उन्मजच्छफरीपुलिन्दललनापीनस्तनास्फालनस्फालीभूतमहोमि निर्मलजला दूरे धुनी नर्मदा॥' इति गजाष्टके । पुनहे भूमण्डलाखण्डल, यो हेतीश्चापचक्रशूलगदाप्रमुखानि प्रहरणानि न बिभर्ति । क इव । तनूनपादिव । यथा 'वह्निहेतीर्वाला धत्ते । 'हेतिः प्रहरणं शस्त्रम्, तथा 'हेतिः कीलाशिखा ज्वाला' इति द्विकमपि हैम्याम् । पुनर्यः हिंस्रवत् घातुक इव अहिः तान्वैरिणो न हिनस्ति न घातयति । पुनर्यः भवं संसारं भिनत्ति भनक्ति। क इव । करीव । यथा हस्ती पञ्जरं काष्ठकोष्ठं भिनत्ति भेदयति । 'जयकोईमणकमेलभसलभयपंजरकुंजर' इत्यभयदेवसरिकृतजयतिहुअणस्तोत्रे ॥ त्रिभिविशेषकम् ॥ इति देवस्वरूपम् ॥
શ્લોકાઈ
હે પૃથ્વી પતિ, તે જ પરમાત્મા નમસ્કાર કરવાને ગ્ય છે કે જેના જ્ઞાનમાં આરિસાની જેમ ત્રણે જગતના ચરાચર પદાર્થો પ્રતિબિંબરૂપે રહેલા છે અને જેમ રાજા અઢારદ્વીપ સુધીની પૃવીને સ્વાધીન કરે છે તેમ દાનાંતરાય, લાભાંતરાય, ભગત२।य, 64iniत।य, पायर्यातराय, श्य, ति, १२ति, लय, श॥४, शुसा, आम, મિયાંત્વ, અજ્ઞાન, અવિરતિ, નિદ્રા, રાગ અને દ્વેષરૂપ અઢાર અંતરંગ શત્રુઓને જેણે નાશ કર્યો છે, તેમજ સમુદ્ર જેમ નદીઓના પ્રવાહને ઉસંગમાં ધારણ કરે છે તેમ જેણે સ્ત્રીઓને ઉત્કંગમાં સ્થાન આપ્યું નથી અને જેના હૃદયરૂપી નર્મદાના અગાધ જલમાં ક્રીડારૂપી હસ્તિઓનું સ્થાન નથી. વળી જેઓએ ખડગ, ભાલા, ચક્ર, ગદા આદિ તીક્ષણ