________________
४७४
हीरसौभाग्यम्
[सर्ग १४ श्लो० २६-३०
· इमां वृत्तापेक्षया पूर्वोकां मही भूमिरेव महेला कामिनी । 'यश्च परमहेलारतोऽप्य. पारदारिकः' इति चम्पूकथायाम् । तथा 'महिला स्यान्महेलया' इति शब्दप्रभेदे । तस्या दयितो भर्ता अकब्बरः तेनोदितां कथितां वाणी निपीय सादरं श्रुत्वा प्रभुः सूरीन्द्रोऽप्यचीकथतू वदति स्म । इमां काम् । हे सूरीन्द्राः, इदं मयैव निगद्यमानं पृच्छयमानं मे मम वदन्तु कथयन्तु । इदं किम् । यः परमेशिता परमेश्वरो युष्माभिः श्रीमद्भिरभाजि संसेव्यते स्म । कैरिव । अनुगामिभिरिव । यथा महीमहेन्द्रो नीतिमान भूमान सेवकैः सेव्यते । स कः परमेष्ठी किंनामा च पुनः किंगुणो गुरुरुपासनामहति सेवां कर्तु योग्यो भवति सेवनीयः स्यात् । गुरुः किं कुर्वन् । अवद्येन पापेन वन्ध्याम् । 'अवद्यमुक्तः पथि यः प्रवर्तते' इति सिन्दूरप्रकरे । सर्वथा पापनिर्मुक्तां पदवी मार्ग प्ररूपयन् । गुरोर्गुरुरिति विशेषणमपि तत्वोपदेष्टा हिताहितनिरूपकः । च पुनः सुधाब्धिवत्क्षीरसमुद्र इव अमृतं सुधां मोक्षं च ददते विश्राणयति । अयं 'दद दाने' धातुरात्मनेपदी भ्वादिश्च । स धर्मः किंविधः कीदृक्प्रकारः ॥ युग्मम् ॥ इति साहेर्दैवगुरून्प्रति देवगुरुधर्माणां प्रश्नः ।
શ્લેકાર્થ હે સૂરીન્દ્ર, જેમ સેવકેને સેવ્ય રાજા છે તેમ આપના ઉપાસ્ય પરમેશ્વર કેશુ? નિષ્પા૫ માર્ગના પ્રરૂપક ગુરુ કે? અને ક્ષીરસમુદ્રની જેમ નિરંતર સુધાને અર્પણ કરનાર આપનો ધર્મ કેણ? તે મને કહે. આ પ્રકારની પ્રજાપતિ અકબરની વાણીનું पान ४शने गुरुमहाराले ४थु :- ॥ २६ ॥ ॥ २७ ॥
जगन्ति यस्यानुभवेऽनुबिम्बितामिवात्मदर्श दधते धरापते । जिगाय चाष्टादशदोषविद्विषो नवद्वयद्वीपभुवो जयीव यः ॥ २८ ॥ तरङ्गिणीवेणिमिवाम्भसां प्रभुर्न चाङ्कपाली नयते नितम्बिनीम् । कचित्पुनर्यस्य न नमेनमेदादावगाहे द्विरदायितं हृदा ॥ २९ ॥ विभर्ति हेतीन तनूनपादिवाहितान्पुनर्यो न हिनस्ति हिंस्रवत् ।
भवं भिनत्ति स्म करीव पञ्जरं दधाति देवः स नमस्क्रियाहतीम् ।। ३० ।। हे धरापते, स दीव्यति क्रीडति त्रैलोक्यैश्वर्यलक्ष्म्या ब्रह्मश्रिया वा स देवः परमे वगे निखिलनरसुरासुराणामपि नायकः नमस्क्रियाया नमस्कृतेराहतीमौचितीं वोग्यता दधाति बिभर्ति । 'उडपरिषद: कि नाहेन्ती निशः किमनोचिती' इति नैषधे। अत्र नमः विकल्पत्वेन रुपद्वयी आर्हन्ती आहती च । अर्हतो भाव आहती। 'अणतृण ईप' इतीप्प्रत्ययः। इति सिद्धिरपि । स देवः प्रणामयोग्यः स्यात् । स कः। यस्य परमेशितरनमवे ज्ञाने जगन्ति त्रीणि-सप्त-चतुर्दश-एकविंशतिर्वा भुवनानि अनुबिम्बन्ति संक्रामन्तीत्येवंशीलानि अनुबिम्बीनि अनुबिम्बिनां भावोऽनुबिम्बितां प्रतिबिम्बशीलता दधते बिभ्रति ।