SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ७०८ होरसौभाग्यम् [ सर्ग १६ श्लो० ५५-५६ चतुष्कमधिरोहणात्क्रमविहारयोरन्तरा ___ व्यलोकत समाजवत्सुकृतभूमिभर्तुः प्रभुः । पुनर्मणिहिरण्मयं जिननिकेतनं तत्पुरः सुधाशवसुधाधरोल्लसितचूलिकाचैत्यवत् ॥ ५५ ॥ प्रभुहीर विजयसरिः अधिरोहणादधस्तनसोपानात्क्रमादुपरितनसोपानागमनात सोपा. नक एव स्थितः । यत्र विहारयोर्मूलप्रासादप्राकारयोरन्तरा मध्ये चतुष्कं 'चौक' इति प्रसिद्धम् । प्रासादाङ्गणभूमिमित्यर्थः । व्यलोकत दृष्टवान् । किंवत् । समाजवत् । उत्प्रेक्ष्यतेसुकृतभूमिभर्तुः धर्माभिधानपार्थिवस्य समाज सभामिव । पुनरन्यत्तत्पुरः तस्य चतुष्कस्याग्रे मणयः कर्केतनचन्द्रकान्तादिकास्तैर्युक्त हिरण्मय स्वर्णप्रधानं रक्तकाञ्चनरचित जिननिकेतनमृषभदेवप्रासादं व्यलोकत ददर्श । किंवत् । सुधाममृतमश्नन्तीति सुधाशा देवास्तेषां वसुधाधरः पर्वतो मेरुगिरिस्तस्योल्लसिता उल्लास प्राप्ता शोभासंयुक्ता जाता या चूलिका शिखा अधित्यका वा तस्याश्चत्यवत्सिद्धायतनमिव ॥ अथकविंशतिकाव्यमूलप्रासादवर्णनम् . I જગદ્ગુરુએ પાનપંક્તિ ઉપર ચઢતા છેલ્લા પગથિયેથી મૂલપ્રાસાદની વચમાં આવેલે રંગમંડપ જે તે જાણે ધર્મરાજાની રાજસભા ન હોય તેવો શોભતે હતે. વળી તેની આગળ સુવર્ણ અને રત્નમય એ મૂલપ્રાસાદ જે; તે જાણે મેરૂપર્વતની ચૂલિકા ઉપર રહેલું સિદ્ધાયતન ન હોય! ! પપ तमीश इव तारकैग्रहपतिर्ग्रहोपैरिवा सुरेश्वर इवासुरैरिव सुरैः सुरेशः पुनः । नरेन्द्र इव मानवैर्वृषभकेतनाईद्गृहं गृहलघुभिरर्हतां स्फुरति सर्वतोऽलंकृतम् ॥५६ ॥ सर्वतः सर्वास्वपि दिनु अर्हतां भगवतां लघुभिरल्पप्रमाणै हैर्देवकुलिकाभिरलंकृत शोभितं वृषभकेतनार्हतः वृषभदेवस्य गृह चैत्यं स्फुरति दीप्यते । कैः क इव । तारकैयोतिर्भिस्तमीशश्चन्द्र इव । पुनर्ग्रहाणां मङ्गलादीनामोधैः समूहैर्ग्रहपतिः सूर्य इव । पुनरसुरैः दानवैरसुरेश्वरो दानवेन्द्रवत् । पुनः सुरैर्देवैः सुरेशो देवेन्द्र इव । पुनर्मान. मनुष्यैः नरेन्द्रो राजेव ॥ તારાઓ વડે ચન્દ્ર મંગલ આદિ ગ્રહો વડે સૂર્ય, દે વડે ઇંદ્ર અને મનુષ્ય વડે
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy