SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ७०६ सौभाग्यम् [ सर्ग १६ श्लो० ५२-५३ स्फुरत्करतरङ्गितां स्फटिककल्पितारोहणावलीमयममार्गयद्वरणगोपुराभ्यन्तरे । विमुच्य मृडमद्रिजापरिभवेन सापत्न्यतः किमम्बरतरङ्गिणीं विदधतीं विरक्तेस्तपः ।। ५२ ।। मलीमसजनाप्लवैर्निजम पावनी भावुकं पवित्रयितुमीयुषी किमथ वात्र शत्रुंजये । मुरारिमथनोदितस्वतनुजादिविश्लेषजा सुखात सुधाम्बुधः किमु तनोति तीर्थे तपः ॥ ५३ ॥ अयं सूरिर्वरणस्य प्राकारस्य गोपुरं प्रतोली तस्याभ्यन्तरे मध्ये स्फुरद्भिः करैः किरणैः कृत्वा तरङ्गाः कल्लोलाः संजाता अस्यामिति तरङ्गिता तादृशीं तथा स्फटिकैः श्वेतरत्नैः कल्पितां निर्मितामारोहणानां सोपानानामावलीं श्रेणीममार्गयत्पश्यति स्म । 'मार्गयति मृगयतेऽपि च मार्गति चेत्याहुरीक्षार्थे' इति क्रियाकलापे । उत्प्रेक्ष्यते - समान एक: पतिर्यस्याः सापत्नी तस्याः भावः सापत्त्य ततः कारणादद्विजायाः पार्वत्याः परिभवेन संतापेन । उद्विग्नेत्यध्याहार्यम् । मृडमीश्वरं विमुच्य त्यक्त्वा विरक्तेवैराग्यात्तपो विदधतीं तीर्थे तपस्यन्तीमम्बरतरङ्गिणीं गङ्गामिव । अथ वा पुनरुत्प्रेक्ष्यते - मलीमसा जात्या अन्त्यजाः कर्मणा महाक्रूरकर्माणो जीवादिघातनान्महापापिना मलिनजनास्तेषामाप्लवैः स्नानकरणादिभिः कृत्वा अपावनीभावुकमपवित्री भवनशीलं निजमात्मानं पवित्रयितुं पावनीकर्तुम् | तीर्थसेवया इत्यध्याहार्यम् । अस्मिन् सर्वतीर्थाधिराजे सौराष्ट्रमण्डलकमला चूडामणी श्रीशत्रुंजये ईयुषी समागतवती किमु । अर्थात्पूर्वप्रतिपादिता गङ्गेव वा । उताथ वा मुरारिणा नारायणेन यन्मथनं मन्दरगिरिणा कृत्वा आमूलाद्विलोडनं तस्मादुदितः प्रादुर्भूतो यः स्वस्य क्षीरसमुद्रस्यात्मनः तनुजानां 'लक्ष्मी: कौस्तुभपारिजातकसुरा धन्वन्तरिश्चन्द्रमाः धेनुः कामदुधा सुरेश्वरगजो रम्भादिदेवाङ्गना । अभ्वः सप्तमुखोऽमृत हरिधनुः शङ्खो विषं चाम्बुधे रत्नानीति चतुर्दशापि कविभिः संकीर्तितानि स्फुटम् ॥' एषां चतुर्दशानां मध्ये केचित्पुत्रा आदिशब्दात्काश्चित्पुत्रयस्तसां विश्लेषो वियोगः तस्माज्जात यदसुखं सुखादन्यत् विरुद्ध वा सुखस्याभावो वासुखम् | 'तदन्यत्तद्विरुद्धतदभावेषु नञो वर्तमानत्वात् त्रयोऽप्यर्थाः संगच्छन्ते' इति सारस्वतव्याकरणानुसारिवचः । एतावता दुःखं तस्मात्कारणात्सुधाम्बुधिः क्षीरसमुद्रो महानन्दपदप्रापकास्पदेऽत्र शत्रु जयतीर्थ तपस्तनोति किमु । अशनादित्यागलक्षण नियमविशेष करोतीव ॥ युग्मम् ॥ इति सर्वाभ्यन्तरप्राकारप्रतोलीसोपानानि ॥ શ્લેાકા આચાર્ય દેવે, પ્રાકારની મધ્યમાં દેદીપ્યમાન રત્નનાં કિરણાથી તરંગારૂપે થયેલી
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy