________________
सर्ग १६ श्लो० ५१]
हीरसोभाग्यम्
७०५
ततस्तत्र तिलकतोरणे जिननमनानन्तरममुना सूरीन्द्रेण पतङ्गकुण्डं सूर्यकुण्डम् । कुण्डशब्दस्त्रिलिङ्गः । 'पेटो मठः कुण्डनीड-' इति लिङ्गानुशासने । न्यभाल्यत दहशे । किंभूतम् । सर्वतः सर्वेष्वपि प्रदेशेषु सममेव एककाल समलंकृतं सम्यक्प्रकारेण शोभितम् । कैः। जिनाधिपानामृषभदेवतीर्थकृतां सभाजनार्थ पूजाकृते । 'सभाजने पश्यति विस्मिते सा सभाजनं तत्र ससर्ज तेषाम्' इति नैषधे । 'तेषां देवानां सभाजन पूजां ससर्ज चकार' इति तवृत्तिः। यः आप्लवः स्नानम् । 'स्नानं सवनमाप्लवः' इति हैम्याम । तस्य विधाने करणे बद्ध आदरो बहुमानं यैस्तादृशैररविन्दनयनारूपैर्जनः । स्त्रीसमूहै रित्यर्थः । उत्प्रेक्ष्यते-प्रभोहीरविजयसूरेनिनंसयानन्तुमिच्छया स्फुटीभवद्भिः प्रकटैजायमानैः जला. धिसुराणां सलिलाधिष्ठायकदेवानां जलदेवतानां यौवतैर्युवतीसमूहैरिव ॥ इति द्वितीय प्राकारप्रासादेषु देववन्दनम् ॥
તે પછી આચાર્યદેવે, જિનેશ્વરભગવંતની પૂજા કરવા માટે ચારેબાજુ રહેલા સ્નાન કરવામાં આતુર એવા સ્ત્રીપુરુષના યુગથી સુશોભિત એ “સૂરજકુંડ જોયે. તે યુગલે જાણે આચાર્યદેવને નમસ્કાર કરવા માટે આવેલા જલદેવતાના દેવયુગલો ન હોય! . ૫૦ છે
विजित्य कलिना समं दुरितदुर्धरद्वेषिणः
सुखं स्थितिमुपेयुषः शिखरिमण्डलाखण्डले । ससालमणिमन्दिरं किमिह धर्मभूमीभुजो
न्यभालयदयं पुरः प्रवरवप्रवेश्माईतः ॥ ५१ ॥ अयं हीरविजयसूरिः पुरोऽग्रतः अर्हतः ऋषभदेवतीर्थकृतः सत्कः प्रवरः प्रकृष्टः वप्रः प्राकारो यत्र ताहग्वेश्म भवन ससाल युगादिजिनविहारं न्यभालयत्पश्यति स्म । उत्प्रेक्ष्यते-इहास्मिन् शिखरिणां सर्वपर्वतानां मण्डलानां समूहानां मध्ये आखण्डलः शक्र इवाखण्डले सुखं सातं यथा स्यात्तथा स्थिति निवासलक्षणामुपेयुषः प्राप्तवतो धर्मनानो भूमिभुजः भूपालस्य सह सालेन प्राकारेण वर्तते यत्तत्ससालं तादृशं मणिम न्दिरं किं रत्नगेहमिव सुखं स्थितस्य । किं कृत्वा । कलिना कलिकालेन सम सार्घ दुरितानि पापान्येव दुर्धरानुत्कटान दुष्टत्वात् द्वेषिणः सपत्नान विजित्य सर्वात्मना पराभूय ॥
પ્લેકાથ આચાર્યદેવે સુંદર અને મજબૂત કેટથી સુશોભિત “અષભવિહાર” જે. તે 2ષભવિહાર જાણે કલિકાળસહિત પાપરૂપ દુર્ધર શત્રુઓને પરાભવ કરીને પર્વતેન્દ્ર એવા શત્રુંજય પર્વત ઉપર સુખપૂર્વક રહી શકાય તે માટે ધર્મરાજાએ બંધાવેલો પ્રાકાર સહિત રત્નમહલ ન હોય તે શોભતો હતે ! | ૫૧ છે
हि सौ०-८९