________________
सर्ग १६ श्लो० ४८]
हीरसौभाग्यम्
७०३
अपवर्गों मोक्षः स एव पूर्नगरी तस्या गोपुर प्रतोलीमिव प्रविशति स्म । किं कृत्वा । मणिसेतुना विविधरत्ननिर्मापित पद्यया अभ्रंकष गगनमुल्लिखत् वृषभकूट मूलप्रासादस. बन्धि शिखरं समेत्य समागत्य। च पुनस्तस्य चरणस्यान्तिके सचिवो वीरधवलधराधवप्रधानो यो वस्तुपालस्तेनावतारित रचनया नवीनं निष्पादितमुजयन्त गिरिनारि. गिरिप्रपञ्च विलोक्य । 'प्रणीय नयनातिथिं स च कुमारदेवीभुवा' इत्यपि पाठः। तत्र च पुनः कुमारदेवीसाधो रासराजस्य पत्नी तस्यां भूरुत्पत्तिर्यस्य तादृशेन वस्तुपालेनावतारितं प्रतिरूपं कृतमुजयन्त रैवताचलं नयनयोगतिथिं प्राघुणिक प्रणीय विधाय । लोचनगोचरी. कृत्येत्यर्थः । स सूरिस्तत्रोजयन्तावतारे वस्तुपालविहारे अर्हतः श्रीनेमिनाथप्रमुखान जिनेन्द्रान्नमति स्म ।
લેકાથ
હીરવિજયસૂરિજીએ વિવિધ પ્રકારનાં રત્નોથી રચિત ગગનચુંબી એવા “ઝષભકૂટ” નામના શિખર ઉપર આવીને બીજા કેટમાં પ્રવેશ કર્યો, તે કેટ જાણે મોક્ષપુરીમાં પ્રવેશ કરવા માટે દરવાજો ન હોય ! તેની સમીપે આવેલા રાણુ વીરધવલના મંત્રી વસ્તુપાળે ઉજજયન્ત ગિરિસમાન બંધાવેલા “વસ્તુપાલવિહારને જે અને ત્યાં બિરાજમાન નેમિનાથ ભગવાનને નમસ્કાર કર્યા. ૫ ૪૭ છે
ततः खरहताभिधां वसतिमभ्युपेत्य प्रभुः __ स्ववासत इवागतं रचनयात्र नन्दीश्वरम् । सराजिमतिकां स्फुरञ्चतुरिकां पुनर्नेमिनो निभाल्य जिनपुंगवानिह तमामनंसीन्मुदा ॥४८॥
प्रभुहीरसूरिः इह खरहतवसतौ मुदा हर्षेण जिनपुंगवान् तमामतिशयेन पञ्चाङ्गप्रणतिनमस्तवादिना अनंसीन्नतवान् । किं कृत्वा । ततो रैवतावतार-वस्तुपालवसति-जिनपति-नमनानन्तर खरहत इत्यभिधा यस्यास्तादृशीं वसतिं खरहतनाम्ना व्यवहारिणा स्वनामेव कारितप्रासादमभ्युपेत्यागत्य । पुनः किं कृत्वा । नन्दीश्वरमभ्युपेत्य । उत्प्रे. क्ष्यते-रचनया शिल्पघटनाविशेषेण कृत्वा इह शिखरवसतो स्ववासतो निजवसनस्थानात् अष्टमद्वीपभूमेरागत संप्राप्त नन्दीश्वरमष्टमद्वीपलक्षण द्विप वा सत्प्रसादलक्षण: मिव । पुनः किं कृत्वा । अत्र खरहतवसतौ नेमिना द्वाविंशतितमतीर्थकृन्नेमिनाथस्य स्फुरन्ती रचनाचातुर्येण शोभमानां चतुरिकां 'चउरी' इति लोकप्रसिद्धां पाणिग्रहणस्थानं निभाल्य दृष्ट्वा । किंभूतां चतुरिकाम् । सराजिमतिका सह राजीमत्या वर्तते या सा सराजिमतिका । राजिमतीत्यत्र जिकारो ह्रस्वोऽपि दृश्यते श्रेण्यामिव राजिः राजी। तथा च 'स्वामिन्मामुग्रसेनक्षितिपकुलभवां सानुरागां सुरूपां बालां त्यक्त्वा कथ त्व