SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् [सर्ग १६ श्लो० ४१ किं कृत्वा । क्रमेण प्रथम द्वितीयतृतीयादिमेखलारोहणपरिपाटया धरणीभृतः श्रीशत्रुजयाद्रेरधित्यकामूर्ध्वभूमी समधिगत्य प्राप्य । 'अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमा. त्ततः' इति नैषधे । 'अधिगत्य आसाद्य' इति तद्वृत्तिः। उत्प्रेक्ष्यते-उद्भटः अत्युत्कटो वारयितुमशक्यो यो भवः संसारः स एवाभिमातिः शत्रुस्तस्य भयाद्भीतेः स्वस्यात्मनः शरणे आगत संप्राप्त जन भविकलोक रक्षितुं त्रातुं पालयितु निर्भयं कर्तुं काश्ता वाञ्छता विमलभूभृता शत्रुजयाद्रिणा किमु धृतं कृतं वा ॥ લોકાઈ અનુક્રમે ઉપર ચઢતા આચાર્યદેવે ગગનચુંબી બહારના કેટને જોયે. અતિઉત્કટ સંસારરૂપી શત્રુના ભયથી ભવ્યજનેને નિર્ભય કરવા માટે અથાત્ છનું રક્ષણ કરવા માટે જાણે વિમલાચલે કોટરૂપે કિલ્લાબંધી કરી ન હોય! છે ૪૦ છે विवेश वशिशर्वरीवरयिता नृणां श्रेणिमिः समं वरणगोपुरं पुरमिवावनीवासवः । स धर्मधरणीपतेरिव निवासवेश्मावली व्यलोकत पुरःस्फुरज्जिननिकेतपति पुनः ॥४१॥ स वशिनां संयमिनां मध्ये शर्वर्या निशाया वरयिता भर्ता चन्द्रो हीरविजयसूरितॄणां यात्रिकसंघलोकानां श्रेणिभिः समं वरणं शत्रुजयशिखरबाह्यप्राकारस्तस्य गोपुरं प्रतोली विवेश प्रविष्टवान् । क इव । अवनीवासव इव । यथा विजयी राजा दिग्त्रयात्रां प्रणीय पुरं स्वां राजधानी नगरी प्रविशति । पुनरन्यार्थोपन्यासे । स हीरसरिः पुरोऽग्रे वरणप्रवेशानन्तरमेवाग्रत एव स्फुरन्तीं प्रकटीभवन्ती दीप्यमानां वा जिनानां तीर्थकृतां निकेतानां मन्दिराणाम् । प्रासादानामित्यर्थः। पंक्ति मालिकां व्यलोकत निरीक्षते स्म । उत्प्रेक्ष्यतेधर्मनामा यो धरणीपतिस्तस्य निवासार्थ वासकृते वेश्मावली भवनराजीमिव ॥ इति शत्रुजयतीर्थे प्रथमप्राकारे प्रवेशः। શ્લેકાર્થ જેમ વિજયી રાજા દિગવિજ્ય કરીને પિતાની રાજધાનીમાં પ્રવેશ કરે તેમ સાધુએમાં ચન્દ્ર સમાન શ્રીહીરવિજયસૂરિજીએ સંઘસહિત બાહ્યકેટના દરવાજામાં પ્રવેશ કર્યો. આગળ જતા દેદીપ્યમાન એવા જિનમંદિરોની હારમાળા જોઈ. તે હારમાળા જાણે ધર્મરાજાને વસવા માટેની ગૃહપંક્તિ ન હોય ! ૪૧ છે
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy