________________
सर्ग १६ श्लो० ३९-४०]
हीरसौभाग्यम्
६९७
स्वचैत्यचटुलध्वजोपधिकरैरिवाकारय
प्रभञ्जननमदद्रमैः किमतिगौरवं कल्पयन् । मनीषिशुकभाषितैरिव सुखागमं प्रश्नय
ऽझरज्झरमुदश्रुभाग्गिरिरभूद्गुरोरागमे ॥ ३९ ॥ गुरोः सूरीन्द्रस्य आगमे गिरिविमलाचलः अद्वैतमोदप्रादुर्भावादेवंविधः अभूद्बभूव । किंभूतः। झरन्तो निष्पतन्तो ये झरा निर्झरवारिधारास्त एव मुदश्रुणि हर्षबाष्पान भजतीति । उत्प्रेक्ष्यते-स्वस्यात्मनश्चत्यानां परमेश्वरप्रासादानां चलाः पवनान्दोलनवि लोला ये ध्वजा वैजयन्त्यस्त एवोपधिः कपटं येषां तादृशैः करैहस्तेः किमाकाग्यन्नाह. यन्निव । पुनरुत्प्रेक्ष्यते-प्रभञ्जनेन वायुवेगेन नमन्तो नम्रोभवन्तो ये द्रुमाः पादपास्तैः कृत्वा अतिगौरवमतिशायिनी भक्तिं नमन चरणलगनलक्षणां कल्पयन् कुर्वन्निवं । 'अनुतिष्ठति विदधाति रचयति कल्पयति चेति करणार्थ' इति क्रियाकलापे । पुनरुत्प्रेक्ष्यते-मनीषिणां विविधशास्त्राध्येतृणां शुकानां कीराणां भाषितरुक्तिभिर्वचनचातुरीभिः कृत्वा । सुखागम यूयमत्र सुखेन समाधिना चागता इत्यादि स्वागतप्रश्नयन्निव पृच्छनिव । अन्यो महात्मा कमपि स्वाभीष्टमभ्यागच्छन्त विभाव्य चञ्चलकरैराकारयति । तथा नमनपदलगनादि भिगौरव कल्पयति । तथा मधुरया गिरा सुखागमनप्रश्नं कुरुते । तथा हर्षाश्रूण्यपि भजते । इति गुरोविमलाचलपटयारोहणे गिरिमेखलावर्णनम् ॥
શ્લોકાથ આચાર્યદેવના આગમનથી હર્ષિત બનેલો વિમલાચલ જાણે ઝરણુમા જલરૂપે હર્ષાશ્રુ વહાવત ન હોય! જિનપ્રાસાદે ઉપર રહેલી અને પવનથી ચંચલ બનેલી ધજારૂપી હાથ વડે જાણે બોલાવતો ન હોય ! પવનથી નમ્ર બની ગયેલા વૃક્ષે વડે જાણે સ્વાગત કરતો ન હોય! અને ચતુર પિપટેની વાણુ વડે જાણે સુખસમાચાર પૂછતે ન હોય! | ૩૯ છે
क्रमेण धरणीभृतः समधिगत्य सोऽधित्यकां
ददर्श वशिनां शशी वरणमम्बरालम्बिनम् । धृतं विमलभूभृतोद्भटभवाभिमातेर्भया
जनं स्वशरणागतं किमिह रक्षितुं काश्ता ॥४०॥ स वशिनां वशात्मनां जितेन्द्रियाणां मध्ये शमाभृतैरतिशीतलत्धेन विश्वाहादकत्वेन च शशी। अत्र षष्ठया अलुक्समासे एकमपि पदं प्रणीयते वा । सूरीन्द्रः अम्बरमाकाशमालम्बते संश्रयत्यालिङ्गति इत्येवंशील वरणप्राकार बाह्यसालं ददर्श पयति ।
हि० सौ-८८