________________
६९६
हीरसौभाग्यम्
[सर्ग १६ श्लो० ३७-३८
છાયા કરી. અને પ્રસરતા ઝરણાના જલકણેથી વ્યાપ્ત કદલીવૃક્ષના પવનથી પ્રેરાયેલા પાંદડાઓએ વીંઝણની જેમ આચાર્ય મહારાજને વીંઝવા, અર્થાત્ શીતલ પવનની હેરીએએ શીતલતા અર્પણ કરી. છે ૩૭ છે
विदग्धविहगा जयारवमुदीरयन्त्यध्वनि
स्तुतिव्रतजना इवान्तरभिमातिभेत्तुः प्रभोः। क्वचिन्निचितमारुतोपचितकीचकानां क्वणै
गुरोर्गुणगणः पुनर्गिरिसुरैरिवोद्गीयते ॥३८॥
क्वचित्क्वापि प्रदेशे विदग्धाः कौतुकक्रीडाकृते अध्याप्य पश्चात् श्रीभृतमहेभ्यः पञ्जरेभ्यो निजेच्छया गमनाय विमुक्ताः। तदर्थ मध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन्' इत्यपि नैषधादौ दर्शनादिदमपि युक्तिमदेवेति । तथा श्रावकसंगत्या श्राद्धत्व च प्रपन्नाः । अत एव तीर्थाधिराज स्वतिय क्कृतपयोहाय सेवमानाः पण्डिता विहगाः शुकसारिकादयः पक्षिणः अध्वनि शत्रुजयाचलारोहणमागे प्रभोः सूरीन्दोज यारव जयजयेति शब्दमुदीरयन्ति कथयन्ति । किंभूतस्य प्रभोः। अन्तर्मध्ये स्वात्मनि वर्तमानानामभिमातीनां रागद्वेषकषायादिविद्विषां भेत्तुर्हन्तुः । के इव । स्तुतिव्रतजना इव । यथा स्वामी प्रमुखाणां पूर्व पुरुषकत व्यादिषु प्रवर्तमाननृपादिमानां वैरिजयधर्मकार्यदानप्रमुखे विधेये स्तवने व्रत नियमो येषां ताशा जना बन्दिलोका वैरिविजेतुः स्वामिनो मङ्गलपाठकाः जयजयारधमुदीरयन्ति । पुनः क्वचिदभूमिभागे निचितैरन्तःप्रविष्टत्वान्निमृतैनिर्बलीभूतैः अथ वा निभृत परिपूर्ण यथा स्यात्तथा मारुतेः पवनैरुपचिताः पुष्टाः कृताः । समस्तावयवेषु पूरिता इत्यर्थः। ये कोचकाः सकीचकाः सच्छिद्रवंशाः । ‘स कीचकैर्मारुतपूर्णरन्धेः' इति रघुव'शे । तेषां कणैः शब्देः कृत्वा । उत्प्रेक्ष्यते-गिरिसुरेः श्रीशत्रुजयाचलाधिष्ठायकदेवैः कपर्दिचक्रेश्वरी गोमुखप्रमुखैर्गुरोहीरसरेर्गुणानां शमदमस यमादीनां गणः समूह उद्गीयते उत्प्राबल्ये न गानविषयीक्रियते इव ॥
લેકાર્થ
ચતુર શુકસારિકા આદિ પક્ષીઓ મંગલપાઠકેની જેમ રાગદ્વેષ આદિ અંતરંગ શત્રુ એના વિજેતા શ્રીહીરવિજયસૂરિની જયજયારવ શબ્દ વડે સ્તુતિ કરતાં હતાં અને જાણે પવનના અધિષ્ઠાયકદે આચાર્યની ગુણસ્તુતિ કરતા ન હોય તેમ પવનથી પુષ્ટ બનેલા છિદ્રવાળા વાંસ મંજલ અવાજ કરતા હતા. મેં ૩૮ છે