________________
६९४
हीरसौभाग्यम्
[सर्ग १६ श्लो० ३५-३६
यथा स्यात्तथा जगुर्वदन्ति स्म । के इव । विदग्धा इव । यथा छेका लोका गीतिमिश्रां वाणी पदन्ति । किंभूताम् । श्रुत्योः श्रोतृश्रवणयोः सुखां सातोत्पादकत्वेनामृतायमानाम् । च पुनः क्वचिघनवने शिखण्डिनां परिपूर्णकलापकलितानां मयूराणां मण्डलाः संततयो ननृतु त्यन्ति स्म । च पुनः क्वचित्प्रदेशे जलदो मेघो जगर्ज गर्जति स्म । गिरी मेघानां सद्भायो वर्ण्यते । उत्प्रेक्ष्यते-भूमीभृतः शत्रु जयाद्रे राज्ञो वा करिघटेव गजराजीव । 'बहूनां घटना घटा' इति हैम्याम् ।
શ્લેકાર્થ
શત્રુંજ્ય પર્વતની કઈ વનભૂમિમાં પંડિતની જેમ પિપટે ભ્રમરના ગુંજારવથી યુક્ત કર્ણપ્રિય એવી મધુરવાણી ઉચ્ચારતા હતા. વળી, કેઈ પ્રદેશમાં મયૂર નૃત્યકારની જેમ નૃત્ય કરતા હતા, અને મેઘ ગર્જારવ કરતા હતા, તે મેળે જાણે શત્રુંજયરૂપી રાજાની ગજઘટ ન હોય! છે ૩૫ છે
मरुन्मिथुनमण्डिता खगविनोदसान्द्रीकृता ____ मरुत्तरुपरंपरा विविधसिद्धसौधान्तरा । मणीशिखरशालिनी पुनरनिन्दिताष्टापदा
नितम्बविलसद्वनी भगवतालुलोके गिरौ ॥ ३६॥
भगवता हीरसूरिणा गिरौ शत्रुजयशैले नितम्बे मेखलायां विलसन्ती स्फुरन्ती शोभनाना वनी काननमालुलांके निरीक्षिता । तीर्थस्थान्य पि सर्वाणि स्थानानि पावनान्येव । वनीशब्दोऽन्यत्रापि दृश्यते । यथा 'यवनी नवनीतकोमलाङ्गो शयनीय यदि पावनीकरोति । अवनीतलमेव माननीय न पुनर्माघवनीवनीविनोदः ॥ इति कविकल्लोले। तथा 'स्वधनी संप्रवदत्पिकापि का' इति नैषधे। किंभूता बनी। मरुतां देवानां मिथुनानि देवदेवीयुगलानि तैमण्डिता अलंकृता । पुनः किंभूता । खगानां विविधजातीयविहगमानां स्वकामिनीकलित विद्याधराणां वा विद्यासाधकरखेचराणां वा विनोदः क्रीडातिरेकः रसवि. शिष्टैर्गुरुप्रमुखैः साधनोपायकरणादिषु नादैः प्रेरणः सान्द्रीकृता स्नेहलीकृता निबिडा विहिता वा । पुनः किंभूता । मरुद्भिर्यक्षादिदेवैः अधिष्ठितानाम् । 'गुह्यको वटवास्यपि' इति हैम्याम् । तरूणां द्रमाणां देवद्रुमाणां वा परंपराः श्रेणयो यत्र । पुनः किंभूता । विविधानि नानाप्रकाराणि स्वर्णरूप्यरत्नमयानि वा सिद्धानामहतां पुण्डरीकादिमुनीनामेव सिद्धानां वा सौधानि चैत्यानि सिद्धायतनानि । अथ वा विविधमन्त्रतन्त्रौषधीरससिद्धिभाजां सिद्धानां गृहाणि । तत्रस्था हि केचिन्मन्त्रादिसाधनां विदधतो विविधौषधीजिघृक्षवोऽपि सौधमाधाय तिष्ठन्तीति तानि अन्तरे मध्ये यस्याः सा । पुनः किंभूता । मणीनां शिखरैः